________________
सप्ततिकाप्रकरणम् देशविरतस्य १३, प्रमत्ताप्रमत्ताऽपूर्वकरणानां प्रत्येकं ९| अत्राप्रमत्तापूर्वकरणयोर्भङ्ग एकैक एत्र वक्तव्योऽरतिशोकयोर्बन्धस्य प्रमत्तगुणस्थानक एव व्यवच्छेदात्। प्राक् च प्रमत्ताऽपेक्षया नवकबन्धस्थाने द्वौ भङ्गौ। तथाऽनिवृत्तिगुणस्थाने पञ्च बन्धस्थानानि, तद्यथा→ ५।४।३।२।११ ततोऽनिवृत्तिस्थानात् परं सूक्ष्मसंपरायादौ बन्धोपरमः ||४२||
उदयस्थानान्यारसत्ताइ दस उ मिच्छे सासायणमीसए नवुक्कोसा। छाई नव उ अविरए देसे पंचाइ अट्टे व ॥४३॥ विरए खओवसमिए चउराई सत्त छच्चऽपुञ्चम्मि। अनियट्टिबायरे पुण इक्को व दुवे व उदयंसा ॥४४॥ एगं सुहुमसरागो वेएइ अवेयगा भवे सेसा। भंगाणं च पमाणं पुन्बुद्दिष्टेण नायव्वं ॥४५॥
सत्ताइ विरए० एगं० मिथ्यादृष्टेः सप्तादीनि दशपर्यन्तानि ४ उदयस्थानानि। तत्र मिथ्यादृष्टौ सर्वसंख्यया पूर्वोक्ता एव भगकानामष्टौ चतुर्विंशनयः। तथा सास्वादने मिश्रे च सप्तादीनि नवोत्कर्षाणि-नवपर्यन्तानि त्रीणि त्रीप्युदयस्थानानि, तत्र सर्वसंख्यया भङ्गानां चत्तस्रः २४, मिश्रेपि चतस्रः २४ । तथाऽविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि ४ उदयस्थानानि, सर्वसंख्यया ८ चतुर्विंशतयः । देशविरते पश्चादीन्यप्टपर्यन्तानि ४ उदयस्थानानि, अत्र सर्वसंख्यया २४।
नथा विरते शायोपशमिके प्रमत्तेऽप्रमत्ते चेत्यर्थः, दिरतो हि श्रेणेरधस्ताद्वर्त्तमानः क्षायोपशमिको विरत इति व्यवहियते, ततश्च प्रमनेऽप्रमत्ते च प्रत्येकं चतुरादीनि सप्तपर्यन्तानि ४ उदयस्थानानि, अत्र सर्वसंख्यया प्रमत्तस्याप्रमत्तस्य च प्रत्येकमष्टावष्टौ २४ । तथाऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि ३ उदयस्थानानि, तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदो, द्वयोर्युगलयोरन्यतरयुगलमित्येनासां चतसृणां प्रकृतीनामुदयोऽपूर्वकरणे ध्रुवोऽत्रैका भङ्गानां २४ । ततो भये बा जुगुप्सायां वा क्षिप्तायां पञ्चानामुदयोऽत्र द्वे २४ भङ्गानां, भय-जुगुप्सयोस्तु युगपत्प्रक्षिप्तयोः षण्णामुदयोऽत्रैका भङ्गानां २४, सर्वसंख्ययाऽपूर्वकरणे चतस्रः २४ । तथाऽनिवृत्तिबादरे पुनरेको द्वौ