Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम्
| १६१
सम्प्रति नाम वि ( चि) चिन्तयिषुराह
छन्नव छक्कं तिग सत्त दुग दुग तिग दुग तिगड चऊ ।
दुग छच्च दुग पण च च दुर्ग च पणग एग चऊ ॥५०॥ एगेगम एगेगभट्ट छउमत्य केवलिजिणाण |
एग चक्र एग चऊ अड्ड चऊ दु छक्कमुदयंसा ॥ ५१॥
छन्न० ए० मिध्यादृष्टौ नाम्नः ६ बन्धस्थानानि, तद्यथा- २३ | २५/२६|२८|२९|३०| तत्रापर्याप्त कै केन्द्रियप्रायोग्यं बध्नतस्त्रयोविंशतिः, तस्यां च बध्यमानायां बादरसूक्ष्मप्रत्येकसाधारणैर्भङ्गाः ४ । पर्याप्तकैकेन्द्रियप्रायोग्यमपर्याप्तद्रि-त्रि- चतुरिन्द्रियतिर्यक्पञ्चेन्द्रिय मनुष्यप्रायोग्यं च बघ्नतः २५ । तत्र पर्याप्त कै केन्द्रियप्रायोग्यायां २५ बध्यमानायां भङ्गाः २०, अपर्याप्तकद्वी न्द्रियादिप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्गः सर्वसंख्या २५ । पर्याप्त कैकेन्द्रियप्रायोग्यं बध्नतः २६, तस्यां च बध्यमानायां भङ्गाः १६ | देवगतिप्रायोग्यं नरकगतिप्रायोग्यं वा बध्नतः २८, तत्र देवगतिप्रायोग्यायां भङ्गाः ८, नरकगतिप्रायोग्यायां १, सर्वसंख्या ९। पर्याप्तद्धीन्द्रियादिप्रायोग्यं बध्नतां २९, तत्र पर्याप्त द्वि-त्रिचतुरिन्द्रियप्रायोग्यायामेकोनत्रिंशति बध्यमानायां प्रत्येकं ८ भगाः । तिर्यक्पञ्चेन्द्रियप्रायोग्यायां ४६०८, मनुष्यगतिप्रायोग्यायां ४६०८, सर्वसंख्या ९२४० । या तु देवगतिप्रायोग्या तीर्थकरनामसहिता [२९] सा मिथ्यादृष्टेन बन्धमायाति । पर्याप्तद्वि- त्रि- चतुरिन्द्रिय- तिर्यक्पञ्चेन्द्रियप्रायोग्यं बघ्नतः ३०, तंत्र पर्याप्तद्वीन्द्रियादिप्रायोग्यायां बध्यमानायां प्रत्येकं ८ भङ्गाः । तिर्यक्पञ्चेन्द्रियप्रायोग्यायां ४६०८, सर्वसंख्यया ४६३२ । या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता ३०, या च देवगतिप्रायोग्याऽऽहारद्विकसहिता, ते उभे अपि मिध्यादृष्टेन बन्धमायातः ।
त्रयोविंशत्यादिषु बन्धस्थानेषु यथासंख्यं भङ्गसंख्यानिरूपणार्थमिय मन्तर्भाष्यगाथा → 'च पणवीसा सोलस, नव चत्ताला सवाय वाया बत्तीसुतरछायालसया मिच्छस्स बंधविही' || [ 1
स्पष्टा । मिथ्यादृष्टेर्नवोदयस्थानानि तद्यथा - २१२४/२५/२६/२७/२८|२९|३०| ३१ । एतानि सर्वाण्यपि प्रागिव वक्तव्यानि । केवलमाहारकसंयनानां वैक्रियसंयतानां केवलिनां सम्बन्धीनि न वक्तव्यानि तेषां मिथ्यादृष्टित्वाभावात्। सर्वसंख्यया मिथ्यादृष्टखुदयस्थानभङ्गाः ७७७३ । मिथ्यादृष्टेः सत्तास्थानानि षट् तद्यथा→९२|८९|८८|८६|८०|७८| संवेधस्तु स्वयमभ्यूः । सम्प्रति सास्वादनस्य बन्धोदयसत्तास्थाना

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220