Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 203
________________ सप्ततिकाप्रकरणम् तद्यथा →२९।३०। तत्र २९ यो नाम पूर्वं प्रमत्तसंयतः सन्नाहारकं वैक्रियं वा निर्वर्त्य पश्चादप्रमत्त[ संयतस्य ] भावं गच्छति तस्य प्राप्यते । एवं ३० उदयोऽपि । स्वभावस्थस्याप्यप्रमत्तसंयतस्य ३० उदयः स्यात् । सत्तास्थानानि ४ तद्यथा-९३।९२।८९।८८| १६५ तथाऽपूर्वकरणस्य ५ बन्धस्थानानि तद्यथा - २८ २९ ३० ३१ १ तत्रैका तु यश:कीर्त्तिः, सा च देवगतिप्रायोग्यबन्धव्यवच्छेदे सत्यवगन्तव्या । एकमुदयस्थानं ३०, अत्र बज्रर्षभनाराचसंहननषट्संस्थानसुस्वरदुःस्वरप्रशस्ताप्रशस्तविहायोगतिभिभङ्गाः २४ । अन्ये त्वाचार्या ब्रुवते आद्यसंहननत्रयान्यतरसंहननयुक्ता अप्युपशमश्रेणि प्रतिपद्यन्ते तन्मतेन भङ्गाः ७२ । एवमनिवृत्तिबादरसूक्ष्म सम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । सत्तास्थानानि ४, तद्यथा ९३ ।९२।८९।८८| तथाऽनिवृत्तिबादरस्यैकैकं बन्धस्थानं यशः : कीर्त्तिः, एकमुदयस्थानं ३०, अष्टौ सत्तास्थानानि ९३ ९२|८९|८८|८०|७९ १७६ | ७५ तत्राद्यानि ४ उपशमश्रेण्यां क्षपकश्रेण्यां वा यावन्नामत्रयोदशकं न क्षीयते, त्रयोदशसु च नामसु यथाक्रमं त्रिनवत्यादेः क्षीणेषूपरितनानि ४ सत्तास्थानानि स्युर्बन्धोदयसत्तास्थानभेदाभावादत्र संबेधो न स्यात् । तथा सूक्ष्मसम्परायस्याऽनिवृत्तिवादरस्यैवावगन्व्यानि । तथा छद्मस्थजिना उपशान्तमोहाः क्षीणमोहाच, केवलिजिना: सयोगिकेवलिनोऽयोगिकेवलिनश्च । तत्रोपशान्तमोहस्यैकमुदयस्थानम् ३० । सत्तास्थानानि ४ तद्यथा ९३।९२।८९।८८| क्षीणकषायस्यैकमुदयस्थानं ३०, अत्र भङ्गाः २४१ वर्षभनाराचसंहननयुक्तस्यैव क्षपकश्रेण्यारम्भकत्वम्, तत्रापि तीर्थकरसत्कर्मणः क्षीणमोहरत्य सर्व संस्थानादि प्रशस्तमित्येक एवं भङ्गः । सत्तास्थानानि ४, तद्यथा—८०|७९/७६ | ७५ | तत्र ७९/७५ | अतीर्थंकरसत्कर्मणः । शेषे तु तीर्थंकरसत्कर्मणः । सयोगिकेवलिनः ८ उदयस्थानानि तद्यथा - २०/२१/२६/२७/२८|२९|३०|३१| सत्तास्थानानि ४, तद्यथा ८० । ७९ । २७६ | ७५ ॥ अयोगिकेवलिनो द्वे उदयस्थाने, ९१८ | सत्तास्थानानि ६, तद्यथा→८०|७९, ७६ | ७५ | ९|८| तदेवं गुणस्थानेषु बन्धोदयसत्तास्थानान्युक्तानि ॥ ५० ॥ ५१ ॥ साम्प्रतं गत्यादिमार्गणास्थानेषु तानि चिन्तयन्नाह दो छक्कड़ चउक्कं पण नव एक्कार छक्कगं उदया। नेरइआइसु संता ति पंच एक्कारस चक्कं ॥५२॥ दो० नैरयिकतिर्यग्मनुष्यदेवानां यथाक्रमं द्वे पडष्टौ चत्वारि बन्धस्थानानि । तत्र

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220