Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 201
________________ सप्ततिकाप्रकरणम् ३१ उदयस्तिर्यक्पञ्चन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानाम्, अत्र भङ्गाः ११५२ / उक्तरूपाया एव भङ्गसंख्याया निरूपणार्थमिय मन्तर्भाव्यगाथा → 'rite air as a treer य पंच या । बारह देवीसावकार या य' ॥ [ ] १६३ स्पष्टा । सर्वभङ्गसंख्यया ४०९७ । सासादनस्य द्वे सत्तास्थाने, तद्यथा ९२१८८। तत्र २९२ य आहारकचतुष्टयं बध्वा उपशमश्रेणितः प्रतिपतन् सासादनभावमुपगच्छति तस्य लभ्यते, न शेषस्पष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् । सम्प्रति संवेध उच्यते तत्राष्टाविंशतिं बध्नतः सासादनस्य द्वे उदयस्थानानि, तद्यथा ३० ३१ । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या स्याद् देवगतिविषया । न च करणाऽपर्याप्तः सासादनी देवगतिप्रायोग्यं बध्नाति ततः शेषा उदया न सम्भवन्ति । तत्र मनुष्पमधिकृत्य ३० उदये द्वे अपि सत्तास्थाने, तिर्यक्पञ्चेन्द्रिय सास्वादनानधिकृत्याष्टाशीतिरेव यतः ९२ उपशमश्रेणीतः प्रतिपततो लभ्यते, न च तिरश्वामुपशमश्रेणीसम्भवः । ३१ उदयेऽप्यष्टाशीतिरेव यतः ३१ उदयस्तिर्यक्पञ्चेन्द्रियाणाम्, न च तिरवां द्विनवतिः सम्भवति । २९ तिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यां बध्नतः सासादनस्य सप्ताप्युदयस्थानानि, तत्रैकेन्द्रिय-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-मनुष्य- देव-नैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्त्तमानानामेकमेव सत्तास्थानं ८८ | नवरं मनुष्यस्य ३० उदये वर्त्तमानस्योपशमश्रेणीतः प्रतिपति (त)तः सास्वादनस्य ९२ । एवं त्रिंशद्बन्धकस्यापि वक्तव्यं । सम्प्रति सम्यग्मिथ्यादृष्टेर्बन्धोदयसत्तास्थानान्युच्यन्ते । द्वे बन्धस्थाने, तद्यथा २८|२९| तत्र तिर्यग्मनुष्याणां मिश्राणां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषां २८/२९ | मनुष्यगतिप्रायोग्यं बध्नतां देवनैरयिकाणामुदयस्थानानि ३, तद्यथा - २९ ३० ३१ | द्वे सत्तास्थाने, तद्यथा - ९२|२८| I अधुना संबेध उच्यते । सम्यग्मिथ्यादृष्टेरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने, तद्यथा ३० ।३१। एकैकस्मिन् उदयस्थाने द्वे सत्तास्थाने, तद्यथा - ९२१८८ | २९ बन्धकस्यैकमुदयस्थानं २९ | अत्रापि ते एव द्वे सत्तास्थाने ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220