Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 212
________________ गुणरत्नसूरिविरचित-अवचूण्र्युपेतं नोपशान्तौ २१ । संज्वलनमानोपशान्तौ २२। ततोऽप्रत्याख्यानप्रत्याख्यानावरणमायोपशान्तौ २४ । संज्वलनमायोपशान्तौ २५ । तदेवमनिवृत्तिबादरे सप्तभ्य आरभ्य पञ्चविंशति यावदुपशान्तानि कर्माणि लभ्यन्ते ॥३॥ तथा चाहसत्तट्ट नव य पनरस सोलस अट्ठार । इगुवीसा । एगाहि दु चवीसा पणवीसा बायरे जाण ॥६॥ स्पष्टा । अत्राप्यप्रत्याख्यानप्रत्याख्यानावरणलोभोपशान्तौ २७ कर्माण्युपशान्तानि स्पुस्तानि च सूक्ष्मसम्पराये प्राप्यन्ते । आह च.'सत्तावीस सुहमे अट्ठावीसं पि मोहपयडीओ। उपसंतवीयरागे उपसंता होति नायव्वा ।।' [ ] सूक्ष्मसम्परायाद्धायाश्चान्तर्मुहूर्तप्रमाणायां प्रविष्टः सन् उपरिननस्थितेः सकाशात् कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसम्परायादातुल्यां करोति वेदयनि च, शेषं सूक्ष्मकिट्टीकृतं दलिक समयद्वयोनाऽऽवलिकाद्विकबद्धं चोपशमयनि। सूक्ष्मसम्परायाद्धायाश्वरमसमये संज्वलनलोभ उपशान्नः स्यात् । तत्समयमेव ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकयशःकीत्त्युच्चैर्गोत्राणां [बन्ध]व्यवच्छेदस्ततोऽनन्तरसमये उपशान्तकषाय: स्यात् । तस्मिंश्चाष्टाविंशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञानव्याः। उपशान्तकषायश्च जघन्येनैकं समयमुत्कर्षेण त्वन्तर्मुहर्त्त कालं यावत् नत उर्ध्वं नियमादसौ भवक्षयेणादायेण वा प्रनिपतनि, तत्राद्धाक्षयेण प्रतिपनन् यथैवारूढस्तथैव प्रतिपतति। यत्र यत्र बन्धोदयोदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपनता सता ने आरभ्यन्ते। प्रतिपनंश्च तावत्प्रतिपनति यावत्प्रमत्तगुणस्थानम्। कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानद्विकं यानि, कोऽपि सास्वादनभावमपि। यः पुनर्भवक्षयेण प्रतिपतनि स प्रथमसमये एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयति । उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणिं प्रतिपद्यते, नस्य नियमात् तस्मिन् भवे क्षपकश्रेण्यभावः। य: पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिः स्यादपि। आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते ।।६४॥ १- गार्य श्रीमलथगिरिपादः मूलतया नोपाता।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220