Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
. गुणरत्नसूरिविरचित-अवचूर्युपेतं युगपत्प्रवर्नन्तेऽनिवृत्तिकरणायाश्च संख्येयतमेषु भागेषु गतेष्वेकस्मिन् भागेऽवनिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तर्मुहुर्तप्रमाणमन्तरकरणमभिनवस्थितिबन्धकाद्धासमेनान्तमुहूर्नप्रमाणेन कालेन करोति, अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं परप्रकृतिषु बद्ध्यमानासु प्रक्षिपति, प्रथमस्थितिगतं च दलिकमावलिकामानं वेद्यमानासु परप्रकृतिषु स्तिबुकसङ्क्रमेण सङ्क्रमयति । अन्तरकरणे कृते सनि द्वितीये समपेऽनन्तानुबन्धिनामुपरितनस्थितिगतं दलिकमुपशमयितुमारभते। तद्यथा--प्रथमसमये स्तोकमुपशमयति, द्वितीयसमयेऽसंख्येयगुणमेवं यावदन्तर्मुहर्तमेतावता च कालेन साकल्यतोऽनन्तानुबन्धिन उपशमिता: स्युः। उपशमिता नाम-यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्य अभिषिच्य द्रुघणादिभिर्नि:कुट्टितो नि:स्यन्द: स्यात्, तथा कमरेणुनिकरोऽपि विशोधिजलेन परिषिच्य परिषिच्य अनिवृत्तिकरणरूपद्रुघणनि:कुट्टितः सङ्क्रमणोदयोदीरणानिधत्तिनिकाचनाकरणानामयोग्य: स्यात् ।
अन्ये त्वाचार्या ब्रुवने-अनन्तानुबन्धिनामुपशमना न, किन्तु क्षपणैव । सा चैव स्यात् → इह श्रेणिमप्रतिपद्यमाना अपि अविरताश्चतुर्गतिका अपि वेदकसम्यग्दृष्टयो देशविरतास्तिर्यञ्चो मनुष्या वा सर्वविरता मनुष्या एव सर्वाभिः पर्याप्तिभि: पर्याप्ता अनन्नानुबन्धिनां क्षपणार्थं यथाप्रवृत्तादीनि त्रीणि करणानि कुर्वन्ति । करणवक्तव्यता च सर्वापि प्रागिव निरवशेषा द्रटन्या । नवरमिहानिवृत्तिकरणे प्रविष्टः सन्नन्तरकरणं न करोति, किन्तु कर्मप्रकृत्युक्तस्वरूपेणोद्वलनासङ्क्रमेणाऽधस्तादावलिकामानं मुक्त्वोपरि निरवशेषाननन्तानुबन्धिनो विनाशयति । आवलिकामात्रं तु स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृनिषु सङ्क्रमयति। ततोऽनन्तरमन्नर्मुहर्त्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितियात रसघातगुणश्रेणयो न स्युः, किन्तु स्वभावस्थ एव स जीवो जायते ।
तदेवमुक्त्तानन्तानुबन्धिनां विसंयोजनाऽधुना दर्शनत्रिकस्योपशमना भण्यते-तत्र मिथ्यात्व स्योपशमना मिथ्यादृष्टेर्वेदकसम्यग्दृष्टेश्च। सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदकसम्यग्दृष्टेरेव । नत्र मिथ्यादृष्टेमिथ्यात्वोपशमना प्रथमसम्यक्त्वमुत्पादयतः। सा चैवं-→पञ्चेन्द्रिय: संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्त: करणकालात्पूर्वमप्यन्तर्मुहूर्त्तकालं प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रवर्तमानोऽभव्यसिद्धिकविशुद्धच्यपेक्षयाऽनन्तगुणविशुद्धिको मतिश्रुताज्ञानविभङ्गज्ञानानामन्यनमस्मिन् साकारोपयोगे उपयुक्तोऽन्यतमस्मिन् योगे वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यापामुत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो मिथ्यादृष्टिश्चतुर्गतिकोऽन्तःसागरोपमकोटाकोटीस्थितिसत्कर्मा इत्यादि पूर्वोक्नं तावद्वाच्यं यावद्

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220