Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 213
________________ सप्ततिकाप्रकरणम् क्षपकश्रेणिमाह्— पढमकसायचउकं एत्तो मिच्छत्तमीससम्मत्तं । अविर से विर मत्ति अपमति खीयंति ॥ ६५ ॥ पढ इह यः क्षपकश्रेणिमारभते सोऽवश्यं नरो वर्षाष्टकस्योपरि वर्त्तमानः । स च प्रथमतोऽनन्तानुबन्धिनो विसंयोजयति । तद्विसंयोजना प्रागेवोक्ता । ततो मिथ्यात्वमिश्रसम्यक्त्वानि युगपत्क्षपयति । इह यदि बद्धायुः क्षपकश्रेणिमारभतेऽनन्तानुबन्धिनां च क्षयानन्तरं मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजस्य मिथ्यात्वस्याऽविनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति । क्षीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषूत्पद्यते । प्रतिपतितपरिणामस्तु नानापरिणामसम्भवाद् यथापरिणाममन्यतमस्यां गतानुत्पद्यते । बद्धायुष्कोऽपि यदि तदानीं न कालं करोति तथापि सप्त के क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमारभते, तथा क्षीणसप्तको यदि देवगतिं नरकगतिं वा सङ्क्रामति ततो देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षं याति । अथ तिर्यक्षु मनुष्येषु वा मध्ये उत्पद्यते तर्हि सोऽवश्यमसंख्येयबर्षायुष्केषु ततस्तद्भवादनन्तरं देवभवे, तस्माच्च देवभवाच्युत्वा मनुष्यभचे, ततो मोक्षं यातीति तुर्ये भवे मोक्षगमनम् । एतानि च सप्तकर्माणि क्षपयत्यविरतसम्यग्दृष्टिर्देशविरतः प्रमत्तो वाऽप्रमत्तो वा, तत एतेषु सनकक्षयः प्राप्यते । यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमाद्नुपरत परिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते तच्च क्षपयितुं यतमानो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, एषां स्वरूपं प्राग्वत्। नवरमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने द्रष्टव्यम्, अपूर्वकरणमपूर्वगुणस्थानेऽनिवृत्त्यनिवृत्तिबादरे । तत्राऽपूर्वकरणेऽप्रत्याख्यान- प्रत्याख्यानकषायाष्टकं तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्वापाः प्रथमसमये तत्पल्योपमासंख्येयभागमात्रस्थितिकं जातम् । अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु सत्सु स्त्यानर्द्धित्रिक-नरकद्रिक- तिर्यक द्विकैक-द्वि-त्रि- चतुरिन्द्रियजाति-स्थावराऽऽतपोद्योतसूक्ष्म-साधारणरूपाणां षोडशप्रकृतीनां क्षग्रस्ततः पश्चात्कषायाष्टकमन्तर्मुहूर्त्तमात्रेण क्षपयति ||६५ || तथा बाह अनियइिवापरे थीणगिद्धितिगनिरयतिरियनामाओ । संखेज्जइमे सेसे तप्पा ओग्गाओ स्त्रीयंति ॥ ६६ ॥ १- गाधैयं श्रीमलयगिरिंसूरिभिः मूलतया नोपाना ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220