Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 208
________________ गुणरत्नस्त्रिविरचित-अवचूर्युपेतं इत्थमन्तर्मुहूर्त्तकालं यावदवस्थाय ततो यथाक्रमं त्रीणि करणानि प्रत्येकमान्तमौहृत्तिकानि करोति, तद्यथा-→यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं, चतुर्थी नूपशान्ताद्धा। तर यभागलकरणे प्रविशन् प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धया प्रविशति, पूर्वोक्तं शुभप्रकृतिबन्धादिकं तथैव तत्र कुरुते, न च स्थितिघातादिकं कुरुते, नद्योग्यविशुद्धव्यभावात्। प्रनिसमयं च नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि स्युः, षट्स्थानपतितानि च । अन्यच्च प्रथमसमयापेक्षया द्वितीयसमयेऽध्यवसायस्थानानि विशेषाधिकानि, एवं नावदाव्यं यावद् यथाप्रवृत्तकरणचरमसमय: तत्र प्रथमसमये जघन्या विशोधि: सर्वस्नोका, ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा, एवं तावद्राच्यं यावद्द्यथाप्रवृत्तकरणाद्धाया: संख्येयो भागो गन: स्यात् । तन: प्रथमसमये उत्कृष्टा विशोधिरनन्तगुणा, तनोऽपि यतो जघन्यस्थानान्निवृत्तस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा, ततो द्वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा, तत उपरि जघन्या विशोधिरनन्तगुणा, एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया तावन्नेयं यावद् यथाप्रवृत्तकरणस्य चरमसमये जघन्यं विशोधिस्थानम् । नत उत्कृष्टानि यानि विशोधिस्थानान्यनुक्तानि तिष्ठन्ति तानि निरन्तरमनन्तगुणया वृद्ध्या तावन्नेतव्यानि यावच्चरमसमये उत्कृष्टं विशोधिस्थानम् । सम्प्रत्यपूर्वकरणमुच्यते-तत्राऽपूर्वकरणे प्रतिसमयमसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्य. वसायरधानानि स्युः, प्रनिसमयं च षट्स्थानपनितानि। तत्र प्रथमसमये जघन्या विशोधिः सर्वस्तोका, सा च यथाप्रवृत्तकरणचरमसमयसत्कोत्कृष्टविशोधिस्थानादनन्तगुणा, तन: प्रथमसमयोत्कृप्टा एव विशोधिरनन्तगुणा, तनोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा, ततोऽपि तस्मिन्नेव द्वितीयसमये उत्कृष्टा . विशोधिरनन्तगुणा, एवं प्रतिसमयं तावद्वाच्यं यावच्चरसमये उत्कृष्टा विशोधिः । अस्मिंश्वापूर्वकरणे प्रथमसमये एव स्थिनिधानो रराघातो गुणश्रेणिगुणसंक्रमोऽन्यश्च स्थितिबन्ध इति पञ्च पदार्था युगप्रत्यवर्तन्ते। तत्र स्थितिघानो नाम-स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षनः प्रभूतसागरोपमशतप्रमाणं जघन्यत: पल्योपमसंख्येयभागमात्रं स्थितिखण्डमुत्किरति खण्डयतीत्यर्थः, उत्कीर्य च याः स्थितीरधो न खण्डयिष्यनि तत्र तदलिकं प्रक्षिपति, अन्तर्मुहूर्तेन च कालेन स्थितिखण्डमुत्कीर्यते । तत: पुनरत्र्यधस्तात् पल्योपमसंख्येयभागमात्रं स्थितिखण्डमन्तर्मुहूर्त्तकालेनोत्किरति, पूर्वोक्तप्रकारेणैव च निक्षिपति । एवमपूर्वकरणाद्धायां प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति । तथा

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220