Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम्
बावीसा एगुणं बंधइ अट्ठारसंतमनियट्टी। सत्तर सुहुमसरागो सायममोहो सजोगि ति ॥६॥ एसो उ बंधसामित्तओघो गइयाइएसु वि तहेव।
ओहाओ साहिज्जा जत्य जहा पगाद्विाभावो ॥२१॥ बावी० एसो० स्पष्टा(ष्टे) ||६||६१॥ सम्प्रति किं सर्वा अपि प्रकृतयः सर्वासु गतिषु प्राप्यन्ते किं वा नेत्याह-- तित्थगरदेवनिरयाउगं च तिसु तिसु गईसु बोद्धज्वं । अवसेसा पयडीओ हवंति सव्वासु वि गईसु ॥६२।। तित्थः स्पष्टा ||६२||
इह गुणस्थानकेषु प्राग्बन्धोदयसत्तास्थानसंवेध उक्तः, गुणस्थानकानि च प्राय उपशमश्रेणिगतानि आपकश्रेणिगतानि च, तत्र प्रथमत उपशमश्रेणिमाह
पढमकसायचउक्कं दंसतिग सत्तगा वि उवसंता। अविरतसम्मत्ताउ जाव नियट्टित्ति नायव्वा ॥६३॥
पढः प्रथमकपाया अनन्नानुबन्धिनो दर्शनत्रिकं एता: सप्तका अपि सप्तापि प्रकृतय उपशान्ना अविरतगुणस्थानकादारभ्य यावदनिवृत्तिगुणस्थानं तावज्ज्ञातव्या। अपूर्वकरणवर्जा: शेषा यथायोगमुपशमका, अपूर्वकरणे त्वेता नियमत उपशान्ता एव लभ्यन्ते ।
तत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनोच्यतेऽविरतसम्यग्दृष्टिदेशविरतविरतानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेज:पद्मशुक्ललेश्याऽन्यतमलेश्यायुक्त; साकारोपयोगोपयुक्तोऽन्तःसागरोपमकोटाकोटीस्थितिकर्मा करणकालात्पूर्वमप्यन्तर्मुहूर्त कालं यावदवदायमानचित्तसन्ततिरवतिष्ठते। तथा संश्च परावर्त्तमानाः प्रकृती: शुभा एव बध्नाति, नाशुभाः। अशुभानां च प्रकृतीनामनुभागं चतु:स्थानकं सन्तं द्वि:स्थानकं करोति, शुभानां च द्विस्थानकं सन्तं चतु:स्थानकं । स्थितिबन्धे च पूर्णे पूर्णे सत्यन्य स्थिनिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमसंख्येयभागहीनं करोति ।

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220