Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 205
________________ १६५ सप्ततिकाप्रकरणम् ऽपि दर्शयितुं न शक्यन्ते । कथं पुनर्ज्ञातव्यानीत्याह- चतुः प्रकारेण प्रकृतिस्थित्यनुभागप्रदेशरूपेण । तत्र प्रकृतिगतानि बन्धोदयसत्तास्थानानि प्राय उक्तानि । एतदनुसारेण स्थित्यनुभागप्रदेशगतान्यपि भावनीयानि । इह बन्धोदयसत्तास्थानसंबेधे चिन्त्यमाने उदयग्रहणेनोदीरणापि गृहीता द्रष्टव्या, उदये सत्यवश्यमुदीरणाया अपि भावात् ||५४ || तथा चाह उदयसुदीरणाए सामित्ताओ न विज्जइ विसेसो । मोत्तूणय इगुयालं साणं सव्व गईणं ॥ ५५ ॥ - = उद॰ इह् कालप्राप्तानां कर्मपरमाणूनामनुभवनमुदय: 1 अकालप्राप्तानामुदयावलिकाबहि:स्थितानां कषायसहितेनाऽसहितेन वा योगसंज्ञकेन वीर्यविशेषेणोदयप्राप्तैः कर्मपरमाणुभि: सहानुभ वनमुदीरणाऽनयोः स्वामित्वमाश्रित्य नास्ति विशेषो, मुक्त्वा एकचत्वारिंशत्प्रकृतीः ॥ ५५ ॥ ताः प्रकृती: आह नाणंतरायदसगं दंसणनव श्रेयणिज्ज मिच्छतं । सम्मत्तं लोभ वेयाउगाणि नत्रनाम उच्चं च ॥५६॥ ― नाणं- पञ्चानां ज्ञानावरणप्रकृतीनां पञ्चानामन्तरायप्रकृतीनां चतसृणां चक्षुरचक्षुरवधिकेबलदर्शनावरणप्रकृतीनामुदय उदीरणा च सर्वजीवानां युगपत् तावत् प्रवर्तते यावत्क्षीणमोहगुणस्थानकाद्धाया आवलिकाशेषो न स्याद्, आबलिकायां तु शेषीभूतायामुदय एव नोदीरणा, आवलिकागतस्योदीरणानर्हत्वात् । निद्रापञ्चकस्य शरीरपर्याप्त्या पर्याप्तानां शरीरपर्याप्त्यनन्तरसमयादारभ्य यावदिन्द्रियपर्याप्तिपरिसमाप्तिर्नोपजायते तावदुदय एव नोदीरणा, शेषकालं तूदयोदीरणे युगपत्प्रवर्तेते युगपच्च निवर्तेते । द्वयोर्भेदनीययोः पुनः प्रमत्तगुणस्थानकं यावदुदय उदीरणा च प्रवर्तते परस्तूय एव नोदीरणा । तथा प्रथमसम्यक्त्वमुत्पादयतोऽन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेषायां मिथ्यात्वस्योदय एव नोदीरणा । तथा वेदक म्यग्दृष्टीना क्षायिकसम्यक्त्वमुत्पादयता सम्यग्मिथ्यात्वमिध्यात्वयोः पितयोः सम्यक्त्वं सर्वापवर्त्तनयाऽपवर्त्त्याऽन्तर्मुहूर्त्तस्थितिकं कृतम्, तत उदयोदीरणाभ्यामनुभूयमानमनुभूयमानमावलिकाशेषं यदा स्यात् तदा सम्यक्त्वस्योदय एव नोदीरणाऽथवोपशमश्रेणिं प्रतिपद्यमानस्यान्तरकरणे कृते सति प्रथमस्थितात्रा - 7 4

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220