Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 200
________________ गुणरत्नसूरिविरचित-अवचूर्ण्यपेतं न्युच्यन्ते । त्रीणि बन्धस्थानानि तद्यथा २८|२९|३०| तत्र नरकगतिप्रायोग्या २८ सास्वादनस्य न बन्धमायाति । देवगतिप्रायोग्यायाश्च बन्धकास्तिर्यक्पञ्चेन्द्रिया मनुष्याश्च । तस्यां चाष्टाविंशती बध्यमानायां ८ भङ्गाः । तथा सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यक्पञ्चेन्द्रिया मनुष्या देवा नैरयिकाश्च तिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां वा २९ बध्नन्ति न शेषामत्र च भगाः ६४०० । तथा सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यक्पञ्चेन्द्रिया मनुष्या देवा नारका वा यदि त्रिंशतं बध्नन्ति तर्हि तिर्यक्पञ्चेन्द्रियप्रायोग्यामेवोद्योतसहिताम्, न शेषाम् । तां च बध्नतां भङ्गानां ३२०० | सर्वबन्धस्थानभङ्गसंख्या ९६०८ । उक्तरूपभङ्गसंख्यानिरूपणार्थमिय मन्तर्भाव्यगाथा → 'अट्ठ य सय चोट्टि बत्तीस साय सासणे भेया । अट्ठावीसाइसुं सव्वाणदृहिंग छण्णवई' || [ ] स्पष्टा । सास्वादनस्योदयस्थानानि ७ तद्यथा २१/२४/२५/२६/२९ ३० ३१ | तत्र २१ उदय एकेन्द्रिय- विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्य- देवानधिकृत्यावगन्तव्यो । नरकेषु सासादनो नोत्पद्यत इति कृत्वा तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तकेन सह यशः कीर्त्त्ययशः कीर्त्तिभ्यां द्वौ भङ्गौ, तावेव सम्भवतो न शेषाः । सूक्ष्मेष्वपर्याप्तेषु मध्ये सास्वादनस्योत्पादाभावात् । अत एव विकलेन्द्रियाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सह य एकैको भगः, स इह न सम्भवति किन्तु शेषा एव । ते च विकलेन्द्रियाणां ६, निर्यक्पञ्चेन्द्रियाणां ८, मनुष्याणामपि ८, देवानामपि ८ | सर्वसंख्यया २१ उदये ३२ । २४ उदय एकेन्द्रियेषु मध्ये उत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तकेन सह यशः कीर्त्त्ययशः कीर्तिभ्यां यौ द्वौ भङ्गौ तावेव सम्भवतो न शेषा:, सूक्ष्मेषु साधारणेषु तेजोवायुषु च मध्ये सासादनस्योत्पादाभावान् | २५ उदये देवेषु मध्ये उत्पन्नमात्रस्य प्राप्यते, न शेषस्य तत्र ८ भङ्गास्ते च सुभगदुर्भगादेयानादेययश:कीर्त्त्ययशः कीर्त्तिपदैरवसेयाः । २६ उदयो विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय मनुष्येषु मध्ये उत्पन्नमात्रस्यात्राप्यपर्याप्तकेन सह य एकैको भङ्गः स न सम्भवति शेषास्तु सम्भवन्ति, ते च विकलेन्द्रियाणां ६ । तिर्यक्पञ्चेन्द्रियाणां २८८, मनुष्याणामपि २८८, सर्वसंख्या २६ उदये ५८२ | २७|२८| उदयौ न सम्भवतस्तौ युत्पत्त्यनन्तरमन्तर्मुहूर्ते गते सति भवतः, सास्वादन [भाव]श्वोत्पत्त्यनन्तरमुत्कर्षतः किञ्चिदूनपडावलिकामात्रम् । २९ उदयो देवनैरयिकाणां स्वस्थानगतानां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां प्राप्यते । तत्र देवस्यैकोनत्रिंशदुदये भङ्गाः ८, नैरयिकस्य १, सर्वसंख्यया ९। ३० उदयस्तिर्यग्मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां देवानां बोत्तरवैक्रिये वर्त्तमानानां सास्वादनानां, तत्र तिरवां मनुष्याणां च ३० उदये प्रत्येकं ११५२, देवस्य ८, सर्वसंख्या २३१२ । 7 १६२ , I 1 I i

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220