Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 190
________________ गुणरत्नसूरिविरचित्त-अवचूर्युपेत नथा संज्ञिपञ्चेन्द्रियपर्याप्तस्य सर्वाणि बन्धस्थानानि, तानि चाप्टौ→ विंशतिचतुर्विंशनिनवाष्टरहितानि । सर्वाण्यप्युदयस्थानानि, तान्यप्यष्टौ, विंशतिनवाष्टोदया हि केवलिनः स्युः, चतुर्विंशत्युदयश्चैकेन्द्रियाणामत एते वास्तत्र केवली संज्ञित्वेन न विवक्षिन इनि तददयप्रतिषेधः । नवाष्टरहितानि सर्वाण्यपि सत्तास्थानानि, तानि च दश । अत्राप्येकविंशत्युदयभङ्गा अष्टौ, षड्विंशत्युदयभङ्गाश्चाष्टाशीत्यधि कशतद्- यसंख्या: पञ्चसत्तास्थानकाः, शेषाश्चतु:सत्तास्थानका: । अपर्याप्तसूक्ष्मैकेन्द्रियायादीनां सप्तानां बन्धादिप्र- कृतीनां संवेधः पूर्वोक्तानुसारेण स्वयमभ्यूह्यः ॥३७॥३८|| सम्प्रनि गुणस्थानान्यधिकृत्याह-- नाणंतराय तिविहमवि दससु दो होति दोसु ठाणेसुं। मिच्छासाणे विइए नव चउ पण नव य संतंसा ॥३९॥ नाणं० मिथ्यादृष्ट्यादिषु सूक्ष्मसम्परायपर्यन्तेषु दशसु गुणस्थानेषु ज्ञानावरणमन्तरायं च त्रिविधमपि स्यात, पञ्चविधो बन्धः पञ्चविध उदय: पञ्चविधा सत्ता इत्यर्थः । तथा द्वयोरुपशान्तमोह.. क्षीणमोहयोर्बन्धाभावे पञ्चोदयः पञ्च सत्ता, परत उदय-सत्तयोरप्यभावः। तथा द्वितीये-द्वितीयस्य दर्शनावरणीयस्य मिथ्यादृष्टौ सास्वादने च नव[विधो]बन्धश्चतुर्विधः पञ्चविधो वोदयो नव[विधा] सत्ता इति द्वौ भड्रगौ। द्वयोरप्यनयोर्गुणस्थानकयोः स्त्यानिित्रकस्य नियमतो बन्धात् ।।३९|| मिस्साइ नियट्टीओ छ च्चउ पण नव य संतकम्मंसा। चउबंध तिगे चउ पण नवंस दुसु जुयल छस्संता ॥४०॥ मिस्सा. मिश्रादिष्वप्रमत्तपर्यन्तेषु, निवृत्तौ च अपूर्वकरणे चापूर्वकरणाद्धाया: प्रथमे संख्येयतमे भागे चेत्यर्थः, परतो निद्राद्विकबन्धव्ययवच्छेदेन षड्विधबन्धासम्भवात्, नत एतेषु ६ बन्धः । ४।५ विधोबा उदयो ।९ सत्तेति द्रौ भगौ। नतोऽत ऊर्ध्वमपूर्वकरणेपि चतुर्विध एव बन्धस्ततस्त्रिकेऽपूर्वकरणानिवृत्तिवादरसूक्ष्मराम्परायरूपे ४ बन्धः, ४/५ वा उदयः, २ सत्तेति द्वौ भगौ। 'अंस' इनि सत्ताभिधीयते । एतच्चोक्तमुपशमश्रेणिमधिकृत्य । क्षपकश्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविधोदयस्य सूक्ष्मसम्पराये च नबविधायाः सत्ताया: अप्राप्यमाणत्वात् । 'दुसु जुयल छस्संन त्ति इह क्षपकश्रेण्यामनिवृत्तिबादरसम्परायाद्धाया: संख्येयनमेषु भागेषु [गतेषु] सत्स्वेकस्मिन् भागे संख्येयतमेऽवतिष्ठमाने स्यानिित्रकस्य सत्ताव्यवच्छेद: स्यात्, ततस्तदनन्तरमनिवृत्तिबादरेऽपि षड्विधैव सत्ता स्यादतो द्वयोरनिवृत्तिबादरसूक्ष्मस.

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220