Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 196
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतं अत्र न प्राप्यन्ते। यत इह येन पूर्वं वेदकसम्यग्दृष्टिना सतानन्तानुबन्धिनो विसंयोज्य परिणामपरावृत्त्या मिथ्यात्वं गतेन भूयस्तान् बद्भुमारभ्यन्ते तस्यैव मिथ्यादृष्टेर्बन्धावलिकामानं कालं यावदनन्तानुबन्ध्युदयो न प्राप्यते, अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यने जघन्यतोऽप्यन्तर्मुहर्तावशेषायुष्क एवानन्तानुबन्थ्युदयरहितस्य मिथ्यादृष्टेः कालकरणप्रनिषेधात् । तपान्तरालगात, वर्तमानस्य भवान्तरे वा प्रथमत उत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता दयविकल्पा न प्राप्यन्नेऽत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्ररक्रियमिश्रकाययोगौच भवान्तर उत्पद्यमानस्य, एतच बाहुल्यमाश्रित्योक्तमन्यथा तिर्यग्मनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमित्रमवाप्यते एव परं चूर्णिकता नन्नात्र विवक्षितं, नतः कार्मणयोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिना न प्राप्यन्ते । तथा सास्वादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येक चतस्रश्चतुर्विंशतयः सम्पग्मिथ्यादृष्टेबैंक्रियकाययोगे ४। अविरतसम्यग्दृष्टेक्रियकाययोगे ८। देशविरतस्य वैक्रियवैक्रियमिश्रकाययोगे च प्रत्येक ८ । प्रमत्तसंयनस्यापि वैक्रियेवैक्रियमिश्रे च प्रत्येकं ८ । अप्रमत्तसंयतस्य वैक्रिययोगे ८ । सर्वसंख्यया ८४ चनुर्विंशतयः । एताश्चतुर्विंशत्या गुणिता जानानि २०१६, नानि पूर्वराशौ प्रक्षिप्यन्ते तथा सास्वादनस्य वैक्रिपमिश्रे वर्तमानस्य ये चत्वारोऽप्युदयस्थानविकल्पास्तद्यथा→सप्तोदय एकविधोऽष्टोदयो द्विविधो नवोदय एकविधोऽत्र नपुंसकवेदो न लभ्यते, वैक्रियकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्योत्पादाभावात्। ये चाविरतसम्यग्दृष्टेवैक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टौ उदयस्थानविकल्या एषु स्त्रीवेदो न लभ्यते, बैक्रियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात्, एतच प्रायोबृत्तिमाश्रित्योक्तमन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो भवति। तेन मल्लिस्वामित्यादिभिर्न व्यभिचारः। प्रमत्तसंयनस्याहार- ककाययोगे आहारकमित्रे चाऽप्रमत्तस्याहारककाययोगे ये प्रत्येकमुदयस्थानविकल्पाः ८ तेऽपि स्त्रीवेदरहिता द्रष्टव्याः, आहारकं हि चतुर्दशपूर्विणः स्यादेते च सर्वेप्युदयस्थानविकल्पाः सर्वसंख्यया ४४ । एतेषु चोक्तप्रकारेण द्वौ द्वावेबादौ लब्धौ, ततः प्रत्येकं १६ भगास्ततः ४४ षोडशभिर्गुण्यन्ते जातानि ७०४, तानि पूर्वराशी प्रक्षिप्यन्ते तथाऽविरतसम्यग्दृष्टेरौदारिकमिश्रे ये ८ उदयस्थानविकल्पास्ते पुंवेदसहिता एवं प्राप्यन्ते, तिर्यग्मनुष्येषु स्त्रीवेदनपुंसकवेदेषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात्। एतेषु चैकेन वेदेन प्रत्येकमष्टावष्टावेव लभ्यन्ते, ततोऽष्टावष्टभिर्गुणयित्वा पूर्वराशौ प्रक्षिप्यन्ते तत आगतानि १४१६९, एतावन्तो मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु गुणस्थानेषूदयस्थान - ६. भवति उक्तं च पूर्णी 'कयाइ हुज्ज इथिक्पगेसु र नेन- पा० ।

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220