Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 186
________________ गुणरत्नसूरािंवेरचित-अवचूर्ण्यपतम् तीर्थकरकेबलिनोऽवगन्तव्ये, अतीर्थकरकेबलिनः ३१उदयस्यैवाभावात् । नवोदये ३, तद्यथा ८० १७६ | ९ | तत्राद्ये द्वे यावत् द्विच्चरमस्तावदयोगिकेवलिनस्तीर्थकरस्य वेदितव्ये, चरमसमये तु नव । अष्टोदये ३ सत्तास्थानानि, ७९१७५१८। तत्राद्ये द्वे अयोगिकेवलिनोतीर्थंकरस्य द्विश्वरमसमयं यावद्वेदितव्ये, चरमसमये त्वष्टौ ||३२|| १४८ संप्रत्युक्तक्रमेणैषां जीवस्थानानि गुणस्थानानि चाधिकृत्य स्वामी निर्दिश्यते— तित्रिगप्पपगइठाणेहिं जीवगुणसन्निएस ठाणेसु । भंगा पउंजियव्वा जत्थ जहा संभवो भवइ ॥३३॥ तिवि० त्रयो विकल्पा बन्धोदयसत्तारूपास्तेषां सम्बन्धिभिः प्रकृतिस्थानैर्जविस्थानेषु गुणस्थानेषु च भङ्गाः पूर्वोक्तानुसारेण च प्रयोक्तव्याः ||३३|| तत्र पूर्व जीवस्थानान्यधिकृत्याह--- तेरससु जीवसंखेवएसु नाणंतराय तित्रिगप्पो । एगंमि तिदुविगप्पो करणं पड़ एत्थ अत्रिगप्पो ॥ ३४ ॥ तेर० जीवसंक्षेपाः = जीवस्थानानीत्यर्थः । पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु → पञ्चविधो बन्धः जीवस्थानेषु ज्ञानावरणान्तराययोर्बन्धोदयसत्तारूपात्रयो विकल्पाः प्राप्यन्ते तद्यथा पञ्चविध उदयः पञ्चविधा सत्ता, ज्ञानावरणान्तराययोर्ध्रुबबन्धोदयसत्ताकत्वात् । तथैकस्मिन् संज्ञिपर्याप्तपञ्चेन्द्रियलक्षणे जीवस्थाने त्रयो वा विकल्पा द्वौ वा तत्र त्रयो विकल्पा इमे ५ बन्धः ५ उदयः ५ सत्ता । एते च सूक्ष्मसम्परायगुणस्थानकं यावत्प्राप्यन्ते, ततः परं बन्धव्यवच्छेदे उपशान्तमोहे क्षीणमोहे च द्वौ विकल्पौ तद्यथा ५ उदयः ५ सत्ता । तथा करणं द्रव्यमनोरूपं प्रतीत्य यः संज्ञी रायोगिकेवल्ययोगिकेवली वा भवरथस्तस्मिन् अत्र - ज्ञानावरणेऽन्तराये व अविकल्पः, आमूलं तदुच्छेदे सति केवलित्वभावात् ||३४|| दर्शनावरणं जीवस्थानेष्वाह तेरे नव च पणगं नव संतेगम्मि भंगमेक्कारा । वेयणियाउयगोए विभज्ज मोहं परं वोच्छं || ३५ ॥ तेरे० पर्याप्तसंशिपञ्चेन्द्रियवर्जेषु शेषेषु १३ जीवस्थानेषु नवविधो बन्धचतुर्विधः पञ्चविधो

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220