Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 185
________________ सप्ततिकाप्रकरणम् तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बध्नताकान्द्रवादीनाभुदयसत्तास्थानानि भावनीयानि । मनुष्यगतिप्रायोग्यां तीर्थकरसहितां त्रिंशतं बध्नतां देव नैरयिकाणामुदयस्थानान्युच्यन्ते । तत्र देवस्य यथोक्तां त्रिंशतं बनतः २१उदये दत्तमानस्य द्वे सत्तास्थाने ९३।८९॥ २१उदये वर्तमानस्य नैरयिकस्यैकं सत्तास्थान ८९, ९३रूपं सत्तास्थानं तस्य न स्यात् तीर्थकराहारककर्मणो नरकेषुत्पादाभावात् । एवं २५।२७।२८।२९ ।३०। उदयेष्वपि भावनीयम् । नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते, ३० उदयो युद्योते सति प्राप्यते न च नैरयिकस्योद्योतोदय: स्यात्, तदेवं सामान्येन ३०बन्धकानां २१उदये ७, २४ उदये ५, २५ उदये ७, २६ उदये ५, २७ उदये ६, २८ उदये ६, २९ उदये ६, ३० उदये ६, ३१ उदये ४ । [सर्वसंख्यया ५२] ||३१|| तथैकत्रिंशति बध्यमानायामेकमुदयस्थानं ३०, यत एकत्रिंशदेवगतिप्रायोग्यं तीर्थकराहारकसहितं कर्म बध्नतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं कुर्वन्ति, ततः पञ्चविशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थानं ५३, तीर्थकराहारकचतुष्टययोरपि सत्तासम्भवात् । तथैकस्मिन् यश कीर्तिरूपे कर्मणि बध्यमाने एकमुदयस्थानम् ३०, एकां हि यश कीर्ति बध्नन्त्यपूर्वकरणादयस्ते चाऽनिविशुद्धत्वाद् वैक्रियमाहारकं वा नारभन्ते । ततः पञ्चविंशत्यादीन्युदयस्थानानीहापि न प्राप्यन्ते, अष्टौ सत्तास्थानानि, तद्यथा→९३।२२।८९।८८१८०७९७६।७५। तत्राद्यानि ४ सत्तास्थानान्युपशमश्रेण्यामथवा क्षपकश्रेण्यां यावदनिवृत्तिगुणस्थाने गत्वा त्रयोदशनामानि न क्षिप्यन्ते, त्रयोदशसु नामसु क्षीणेषु नानजीवापेक्षयोपरितनानि चत्वारि लभ्यन्ते, तानि च तावल्लभ्यन्ते यावत्सूक्ष्मसम्परायगुणस्थानम् । तथोपरते [बन्धे] बन्धाभावे इत्यर्थः, वेदनं वेदो, वेद एव वेदकस्तस्मिन्नुदये इत्यर्थः, सत्तायां च प्रत्येकं दश दश स्थानानि । तत्रामूनि दशोदयस्थानानि, तद्यथा→२०।२१।२६।२७१२८१२९ |३०।३१।९।८। दश सत्तास्थानानि, तद्यथा- ९३।९२१८९।८८१८०१७९/७६।७५१९।८। तत्र विंशत्युदये द्वे सत्तास्थाने, ७९/७५) एवं २६।२८ उदययोरपि द्रष्टव्यम् । २१उदये इमे द्वे सत्तास्थाने, ८०॥७९ एवं २७ उदयेऽपि एकोनविंशति ४ सत्तास्थानानि ८०७६६७९।७५। यत एकोनत्रिंशत् तीर्थकरस्यातीर्थकरस्य च स्यात्, तत्राद्ये द्वे तीर्थकरमधिकृत्य द्रष्टव्ये, अन्तिमे द्वे अतीर्थकरमधिकृत्य । ३० उदये ८ सत्तास्थानानि, नवाष्टकवर्जानि । तत्राद्यानि ४ उपशान्तकषायस्य । ८० क्षीणकषायस्य सयोगिकेवलिनो वा । आहारकसत्कर्मणस्तीर्थकरस्य तस्यैवातीर्थकरस्य ७२ । आहारकचतुष्टयरहितस्य तीर्थकरस्य क्षीणकषायस्य सयोगिकेवलिनो वा ७६ । तस्यैवानीर्थकरस्य ७५। ३१ उदये द्वे सत्तास्थाने, ८०/७६। एते च

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220