Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 171
________________ सप्ततिकप्रकरणम् न्यत्सर्वं क्षीणं, तदपि च सत्समय[द्रयो नावलिकाद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावच्चतस्त्रः प्रकृतयत्रिविधबन्धे सत्यः, क्षीणे तु तस्मिंस्तिस्त्र: । ताश्चान्तर्मुहूर्त कालं यावदवगन्तव्याः । द्विविधबन्धे पुनरमूनि-, २८।२४।२१।३।२। त्रीणि प्रागिव, शेषे तु द्वे क्षपकश्रेण्याम् । एकविधवन्ये पुनः पञ्च सत्तास्थानान्यमूनि→ २८।२४।२।।श त्रीणि प्रागिबोपशमश्रेण्यां, शेषे तु द्वे क्षपकश्रेण्याम् । तथा बन्धव्यवच्छेदे बन्धाभावे सूक्ष्मसम्परायगुणस्थाने चत्वारि सत्तास्थानानि २८।२४।२१।। त्रीण्युपशमश्रेण्याम्, एका तु संज्वलनलोभरूपा प्रकृतिः क्षपकश्रेण्याम् ||२१||२२|| तदेवं कृता संवेधचिन्ताऽधुनोपसंहारमाहदसनवपन्नरसाई बंधोदयसंतपयडिठाणाई । भणियाइँ मोहणिज्जे इत्तो नामं परं वोच्छं ॥२३॥ इस गन्धोदलसराकृतिस्थानामपार श्च दशसंख्यानि प्रत्येकं संबंधद्वारेण च भणितानि । इतः परं नानो बन्धादिस्थानानि वक्ष्ये ॥२३॥ तत्र प्रथमतो बन्धस्थानान्याहतेवीस पण्णवीसा छब्बीसा अट्ठबीस गुणतीसा । नीसेगतीसमेकं बंधट्टाणाणि नामस्स ॥२४॥ तेवीस० नाम्नोऽष्टौ बन्धस्थानान्यमूनि च तिर्यग्मनुष्यादिगतिप्रायोग्यतयाऽनेकप्रकाराणि, ततस्तथैवोपदर्यन्ते । तत्र तिर्यग्गनिप्रायोग्यं बध्नत: सामान्येन पञ्च स्थानानि, तद्यथा→ २३१२५/२६ ।२९।३०। तत्राप्येकेन्द्रियप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि, तद्यथा→२३।२५।२६। तत्र प्रयोविंशतिरियं→तिर्यग्गतिस्तिर्यगानुपूरिकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुपघातनाम स्थावरनाम सूक्ष्मबादरयोरेकतरमपर्याप्तकं प्रत्येकसाधारणयोरेकतरमस्थिरमशुभं दुर्गमनादेयमयश:कीर्त्तिर्निमाणमेतासां त्रयोविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानमेतच्चापर्याप्तकप्रायोग्यं बनतो मिथ्यादृष्टेरवसेयम् । अत्र भङ्गाः ४, तथाहि-→बादरे बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणेन, एवं सूक्ष्मेऽपि बध्यमाने द्वे त्रयोविंशती । एषैव त्रयोविंशतिः पराघातोच्छ्वास सहिता पञ्चविंशति: पर्याप्तकैकेन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवगन्तव्या, नबरमपर्याप्तस्थाने पर्याप्तम्, १- तुलना. सप्तविकाभाष्यगाथा -५८ ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220