Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्तत्तिकप्रकरणम्
वीसिगवीसा चउवीसिगाइ एगाहिया उ इगतीसा । उदयट्ठाणाणि भवे नव अट्ठ य हुंति नामस्स ॥२६॥
वीसि. नाम्न उदयस्थानानि १२, तद्यथा-->२०।२१।२४।२५।२६।२७।२८।२९।३० ।३१।।दा तत्रैकेन्द्रियाणामुदयस्थानानि ५, तद्यथा- २१।२४/२५।२६।२७। नत्र तैजसकामणे अगुरुलयु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणमित्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवा:, एतास्तिर्यग्द्विकं स्थावरमेकेन्द्रियजातिर्बादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तायोरेकनरं दुर्भगमनादेयं यश:कीर्त्ययश:कीयोरेकतरमित्येतन्नवप्रकृतिसहिता एकविंशतिरत्र भगा: ५ । बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश: कीर्त्या सह चत्वारो, बादरपर्याप्तयश:कीनिभिः सहैकः । सूक्ष्मापर्याप्ताभ्यां सह यश:कीर्तेरुदयो न स्यादिति कृत्वा तदाश्रिता विकल्या न प्राप्यन्ते । एषा च २१ योऽग्रे स्वप्रायोग्या: सर्वा अपि पर्याप्ती: पूरयिष्यति तस्य योग्यतया लब्धिमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्तीति लब्धिपर्याप्त्यपेक्षया एकेन्द्रियस्यापान्तरालगतौ वर्तमानस्याऽवगन्तव्या । ततः शरीरस्थस्यौदारिकं हुण्डमुपपातं प्रत्येकसाधारणयोरेकतरमिति चतस्रः प्रकृतयः प्रक्षिप्यन्ते, तिर्यगानुपूर्वी चापनीयते, ततश्चतुर्विंशतिः स्यादत्र च भङ्गाः १०, तद्यथा--→ आदरपर्याप्तस्य प्रत्येकसाधारणयश कीर्त्ययश:कीर्तिपदै: ४, अपर्याप्नस्य बादरस्य प्रत्येकसाधारणाभ्यामयश:कीर्त्या सह २, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्येकसाधारणैरयश:कीर्त्या सह ४ इति । बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकस्थाने वैक्रियं कर्तव्यं, ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केबलमिह बादरपर्याप्तप्रत्येकाऽयश:कीर्तिपदैरेक एव भङ्गस्तेजस्कायिकवायुकायिकयोः साधारणयश:कीर्युदयो न स्यादिति तदाश्रिता विकल्पा न प्राप्यन्ते । सर्वसंख्यया चतुर्विंशतो भङ्गाः ११। तथा शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते २५। अत्र भगा: ६, तद्यथा-→ बादरस्य प्रत्येकसाधारणयश:की
यश:कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयश:कीर्त्या सह द्रौ । तथा बादरबायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य पराघाते शिप्ने २५, अत्र च प्राग्वदेक एव भग: । सर्वसंख्यया पञ्चविंशतो भगा: ७ । तत: प्राणापानपर्याप्न्या पर्याप्तस्योच्छ्रासे क्षिप्ते २६, अत्रापि भगा: प्रागिब ६ । अथवा शरीरपर्याप्त्या पर्याप्तस्योन्वारोऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदिते २६, अत्रापि भगा: ६, तद्यथा-> बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयश:कीर्त्ययश:कीर्निपदैश्चत्वारः, आतपसहितस्य प्रत्येकयश:कीर्त्ययश:कीर्तिपदैौ । बादरवायुकायिकस्य वैक्रियं कुर्वत: प्राणापानपर्याप्त्या पर्याप्तस्योच्छासे १- तुलना- सप्ततिकानाष्यगाथा- ८८ |

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220