SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सप्तत्तिकप्रकरणम् वीसिगवीसा चउवीसिगाइ एगाहिया उ इगतीसा । उदयट्ठाणाणि भवे नव अट्ठ य हुंति नामस्स ॥२६॥ वीसि. नाम्न उदयस्थानानि १२, तद्यथा-->२०।२१।२४।२५।२६।२७।२८।२९।३० ।३१।।दा तत्रैकेन्द्रियाणामुदयस्थानानि ५, तद्यथा- २१।२४/२५।२६।२७। नत्र तैजसकामणे अगुरुलयु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणमित्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवा:, एतास्तिर्यग्द्विकं स्थावरमेकेन्द्रियजातिर्बादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तायोरेकनरं दुर्भगमनादेयं यश:कीर्त्ययश:कीयोरेकतरमित्येतन्नवप्रकृतिसहिता एकविंशतिरत्र भगा: ५ । बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश: कीर्त्या सह चत्वारो, बादरपर्याप्तयश:कीनिभिः सहैकः । सूक्ष्मापर्याप्ताभ्यां सह यश:कीर्तेरुदयो न स्यादिति कृत्वा तदाश्रिता विकल्या न प्राप्यन्ते । एषा च २१ योऽग्रे स्वप्रायोग्या: सर्वा अपि पर्याप्ती: पूरयिष्यति तस्य योग्यतया लब्धिमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्तीति लब्धिपर्याप्त्यपेक्षया एकेन्द्रियस्यापान्तरालगतौ वर्तमानस्याऽवगन्तव्या । ततः शरीरस्थस्यौदारिकं हुण्डमुपपातं प्रत्येकसाधारणयोरेकतरमिति चतस्रः प्रकृतयः प्रक्षिप्यन्ते, तिर्यगानुपूर्वी चापनीयते, ततश्चतुर्विंशतिः स्यादत्र च भङ्गाः १०, तद्यथा--→ आदरपर्याप्तस्य प्रत्येकसाधारणयश कीर्त्ययश:कीर्तिपदै: ४, अपर्याप्नस्य बादरस्य प्रत्येकसाधारणाभ्यामयश:कीर्त्या सह २, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्येकसाधारणैरयश:कीर्त्या सह ४ इति । बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकस्थाने वैक्रियं कर्तव्यं, ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केबलमिह बादरपर्याप्तप्रत्येकाऽयश:कीर्तिपदैरेक एव भङ्गस्तेजस्कायिकवायुकायिकयोः साधारणयश:कीर्युदयो न स्यादिति तदाश्रिता विकल्पा न प्राप्यन्ते । सर्वसंख्यया चतुर्विंशतो भङ्गाः ११। तथा शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते २५। अत्र भगा: ६, तद्यथा-→ बादरस्य प्रत्येकसाधारणयश:की यश:कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयश:कीर्त्या सह द्रौ । तथा बादरबायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य पराघाते शिप्ने २५, अत्र च प्राग्वदेक एव भग: । सर्वसंख्यया पञ्चविंशतो भगा: ७ । तत: प्राणापानपर्याप्न्या पर्याप्तस्योच्छ्रासे क्षिप्ते २६, अत्रापि भगा: प्रागिब ६ । अथवा शरीरपर्याप्त्या पर्याप्तस्योन्वारोऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदिते २६, अत्रापि भगा: ६, तद्यथा-> बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयश:कीर्त्ययश:कीर्निपदैश्चत्वारः, आतपसहितस्य प्रत्येकयश:कीर्त्ययश:कीर्तिपदैौ । बादरवायुकायिकस्य वैक्रियं कुर्वत: प्राणापानपर्याप्त्या पर्याप्तस्योच्छासे १- तुलना- सप्ततिकानाष्यगाथा- ८८ |
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy