________________
३
गुणरत्नसूरिविरचित-अवचूर्युपेतम् पराघातमुच्छ्वासं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगं सुस्वरमादेयं यश:कीर्त्ययश:कीर्यो रेकतरा निर्माणमित्येतच्च बन्धस्थानं मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशबिरतानां स देवगतिप्रायोग्यं बनतामवसेयम् । अत्र स्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तिपदैरष्टौ भङ्गाः । एषैव २८ तीर्थकरसहिता २९, अत्रापि त एवाष्टौ भङ्गाः । नवरमेतद्देवगतिप्रायोग्य बध्नतामबिरतसम्यग्दृष्टीनामबसेयम् । ३० पुनरियं देवद्विकं पञ्चेन्द्रियजातिक्रियं वैक्रियागोपागमाहारकमाहारकागोपागं तैजसकामणे समचतुरस्रं वर्णादिचतुष्टयमगुरुलघूपधातं पराघातमुच्छ्वासं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तं प्रत्येकं शुभं स्थिरं सुभगं सुस्वरमादेयं यश:कीर्तिर्निर्माणमित्येतद्वन्ध स्थानं देवगतिप्रायोग्यं बध्ननोऽप्रमत्तस्यापूर्वकरणस्याऽवगन्तव्यम्, अत्र सर्वाण्यपि शुभान्येव कर्माणि बन्धमायान्तीति कृत्वैक एव भगः । एषैव ३० तीर्थकरसहिता ३१ तस्मादत्राप्येक एव भगः । सर्वसंख्यया देवगतिप्रायोग्यबन्धस्थानेषु भगा: १८ । तथा नरकगतिप्रायोग्यं बध्नत एकं बन्धस्थानं २८, सा चेयं नरकद्विकं पञ्चेन्द्रियजातिक्रियं वैक्रियाङ्गोपाङ्गं तैजसकामणे हुण्डं वर्णादिचतुष्टयमगुरुलघूपधानं पराघातमुच्छ्वासमप्रशस्तविहायोगनिःबादरंपर्याप्तंप्रत्येकमस्थिरमशुभंदर्भगंद:स्वरमनादेयमयश:कीर्ति-निर्माणमित्येतदष्टाविंशतिप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टेरवसेयम् । अत्र सर्वेषामशुभत्वादेक एव भङ्गः । एकं तु बन्धस्थानं यश:कीर्तिलक्षणम्, तच्च देवगतिप्रायोग्यं बन्धे व्यवच्छिन्नेऽपूर्वकरणादीनां त्रयाणामवगन्तव्यम् ॥२४||
सम्प्रति कस्मिन्बन्धस्थाने कति भगा: सर्वसंख्यया प्राप्यन्ने इत्येतदाह-- चउ पणवीसा सोलस नव बाणाईसया य अडयाला । एयालुत्तर छायालसया एकेकबंधविही ॥२५॥
चउ० बयोविंशत्यादिषु बन्धस्थानेषु यथासंख्यं चतुरादिसंख्याबन्धविधयो = बन्धभङ्गा वेदितव्याः । सर्वसंख्यया सर्वबन्धस्थानेषु भगा: १३९४५ ॥२५||
सम्प्रत्युदयस्थानान्याह -
।
१-० नानां सर्वविरतानां च देव-पा1 २- तुलना- सप्ततिकाभाध्यगाथा-८ ।