________________
सप्ततिकाप्रकरणम्
(१३२ वर्णादिचतुष्टयमगुरुलघूपघातं पराघातमुच्छ्वासं प्रशस्ताऽप्रशस्तविहायोगत्योरेकतरा असं बादरं पर्याप्तकं प्रत्येक स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगदुर्भगोरेकतरं सुस्वरदुःस्वरयोरेकतरमादेयानादेययोरेकतर यशःकीर्त्ययश:कीोरेकतरं निमाणमित्येकानांशत्प्रकृतिरूप बन्धस्थान मिध्यादृष्टेः पर्याप्तनिर्यक्पञ्चेन्द्रियप्रायोग्यं बध्नतो वेदितव्यम् । यदि पुनः सास्वादनो बन्धक; स्यात्तर्हि तस्य पञ्चानामाद्यानां संस्थानानामन्यतमत् संस्थानम्, एवं संहननानामपि, 'हुंडं असंपत्तं सासणो न बंधइ' [ ] इतिवचनादस्यामेकोनत्रिंशति सामान्येन पशिः संस्थानः, षद्भिः संहननैः, प्रशस्ताप्रशस्तविहायोगतिभ्यां, स्थिरास्थिराभ्यां, शुभाशुभाभ्यां, सुभगदुर्भगाभ्यां, सुस्वरदुःस्वराभ्यां, आदेयानादेयाभ्यां, यश-कीर्त्ययश:कीर्त्तिभ्यां भङ्गाः ४६०८ । विशेषाश्रयणेन तु सासादनमाश्रित्य ३२०० भङ्गकानां स्युः । एषैबैकोनत्रिंशुदुद्योतसहिता ३० स्यादत्रापि मिथ्यादृष्टिसासादनानधिकृत्य नथैव विशेषोऽवगन्नव्यः । सामान्येन भङ्गाः ४६०८ सर्वसंख्यया भङ्गाः ९२१७ । सर्वस्यां तिर्यग्गतौ सर्वसंख्यया ९.३०८ ।
तथा मनुष्यगतिप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि-२५।२९।३०। तत्र २५ यथा प्रागपर्याप्तकद्वीन्द्रियप्रायोग्यं बध्नतोऽभिहिता तथैव ज्ञेया, नवरमत्र मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरिति वक्तव्यम् । २९ त्रिधा - एका मिथ्यादृष्टीन् बन्धकानाश्रित्यावगन्तव्या, द्वितीया सास्वादनान्, तृतीया सम्यग्मिथ्यादृष्टीनविरतसम्यग्दृष्टीन् वा । तबाद्ये द्वे यथा पञ्चेन्द्रियतिर्यक्प्रायोग्ये २९बन्धे द्वे अपि भाविते तथैव भावनीये, तृतीया पुनरियम् →मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रिपजातिरौदारिकमौदारिकाङ्गोपागं तैजसकामणे समचतुरस्रं वज्रर्षभनाराचं वर्णादिचतुष्टयमगुरुलघूपघातं पराघातमुच्छ्वास प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्त प्रत्येक स्थिरास्थिरयोरेकेतरं शुभाशुभयौरे कतरं सुभगं सुस्वरमादेयं यश:कीर्त्ययश:कीयों कतरा निर्माणमित्यस्यां चैकोनत्रिंशति त्रिप्रकारायामपि सामान्येन पनि संस्थान: पतिः संहननैः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुस्वराभ्यामादेयानादेयाभ्यां यश कीर्त्ययश:कीर्तिभ्यां भङ्गा: ४६०८ । यैव तृतीया एकोनत्रिंशुटुक्ता सैव तीर्थकरसहिता ३० । अत्र च स्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तिपदैः ८ भङ्गाः । सर्वसंख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भगा: ४६१७ ।
नथा देवगतिप्रायोग्यं बध्नतश्चत्वारि बन्धस्थानानि २८।२९।३०।३१। तत्र २८ इयं-- देवद्रिकं पञ्चेन्द्रियजातिक्रियं वैक्रियाङ्गोपाङ्गं तैजसकार्मणे समचतुरस्रं वर्णादिचतुष्टयमगुरुलधूपघातं