SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १३८ गुणरत्नसूरिविरचित- अवचूर्ण्यपेतम् क्षिप्ते प्रागुक्ता पञ्चविंशति: षड्विंशतिः स्यात्, तत्र प्रावदेक एव भङ्गः, तेजस्कायिकवायुकायिकयोरातपोद्योतयशः कीर्त्तीनामुदयाऽभावात् तदाश्रिता विकल्पा न प्राप्यन्ते, सर्वसंख्यया षड्विंशतौ त्रयोदश भङ्गाः । तथा प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां षड्विंशतावाऽऽतपोद्योतयोरन्यतरस्मिन् प्रक्षिप्ते २७, अत्र भङ्गाः ६, ये प्रागातपोद्यातान्यतरसहितायां षड्वंशती प्रतिपादिताः । सर्वसंख्यया चैकेन्द्रियाणां भङ्गाः ४२ । द्वीन्द्रियाणामुदयस्थानानि ६, तद्यथा २१/२६ / २८ २९ ३० ३१ | नत्र तिर्यद्विकं द्वीन्द्रियजातिस्त्रर्स बादरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्ययशः कीर्त्यो रेकतरेत्येता नव प्रकृतयो द्वादशसंख्याभिर्ध्रुवोदयाभि: सह २१, एषा चापान्तरालगतौ वर्तमानस्य द्वीन्द्रियस्याऽवाप्यतेऽत्र भङ्गाः ३, तद्यथा अपर्याप्तनामोदये वर्तमानस्यायशः कीर्त्त्या सहकः, पर्याप्तकनामोदये वर्तमानस्य यशः कीर्त्य - यशः कीर्त्तिभ्याम् २ । तस्यैव च शरीरस्थस्यौदारिकमौदारिकाङ्गोपाङ्ग हुण्डं सेवार्त्तमुपघातं प्रत्येकमिति षट् प्रकृतयः प्रक्षिष्यन्ते, तिर्यगानुपूर्वी चापनीयते जाताः २६, अत्रापि भङ्गाः ३ प्रागिव । ततः शरीरपर्याप्त्या पर्याप्तस्याप्रशस्तविहायोगति - पराघातयोः प्रक्षिप्तयोः २८, अत्र यशः कीर्त्ययश: कीर्त्तिभ्यां भङ्गौ २, अपर्याप्तकाप्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छा क्षिप्ते २९, अत्रापि तावेव द्वौ भङ्गौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि नूदिते २९ । अत्रापि भङ्गौ २ प्रागिव । सर्वेऽप्येकोनत्रिंशति भङ्गाः ४ । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायामेकोनत्रिंशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते ३०, अत्र सुस्वरदु: स्वस्यश:कीर्त्ययश: कीर्तिपदैः भङ्गाः ४ । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनूदिते उद्योते तूदिते ३०, अत्र यशः कीर्त्ययशः कीर्तिभ्यां भङ्गौ २१ सर्वे त्रिंशति ६ । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशति उद्यो प्रक्षिप्ते ३१, अत्र सुस्वरदुः स्वरयशः कीर्त्ययश: कीर्तिपदैः ४ भङ्गाः । सर्वसंख्यया द्वीन्द्रियाणां भङ्गाः २२ | एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च प्रत्येकं षट् षट् उदयस्थानानि भावनीयानि । प्रत्येकं च भङ्गाः द्वाविंशति: द्वाविंशतिः, सर्वसंख्या विकलेन्द्रियाणां भङ्गाः ६६ । प्राकृततिर्यक्पञ्चेन्द्रियाणामुदयस्थानानि षट् तद्यथा २१/२६|२८|२९|३०|३१| तत्र तिर्यगूद्विकं पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तापर्याप्तयोरेकतरं सुभगदुभंगयोरेकतरमादेयाऽनादेययोरेकतरं यशःकीर्त्ययशःकीर्त्यो रेकतरेत्येता नवप्रकृतयो द्वादशसंख्याभिर्ध्रुवोदयाभिः सह २१, एषा चापान्तरालगतौ वर्तमानस्य तिर्यक्पञ्चेन्द्रियस्यावगन्तव्याऽत्र भङ्गाः ९, तत्र पर्याप्त कनामोदये वर्त्तमानस्य सुभगादुर्भगाभ्या
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy