SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् मादेयानादेयाभ्यां यश:कीर्त्ययश कीर्तिभ्यां चाष्टौ भङ्गाः, अपर्याप्तकनामोदये वर्तमानस्य दुर्भगानादेयाsयश:कीर्तिभिरेकः । अपरे पुनराहु:→ सुभगादेये युगपदयमायशतो दुर्भगानादेये च, तत: पर्याप्तस्प सुभगादेययुगदुर्भगानादेययुगाभ्यां यश:कीर्त्ययश:कीर्तिभ्यां भङ्गा: ४, अपर्याप्तस्य त्वेक एवमुतरत्रापि मतान्तरमवगन्तव्यम् । ततः शरीरस्थस्यानुपूर्वीमपनीयौदारिकमौदारिकाङ्गोपाङ्ग षण्णां संस्थानानामेकतमसंस्थानं संहननानामेकतमतांहननमुपघातं प्रत्येकमिति षट्कं प्रक्षिप्यते, ततो जाता २६ । अत्र भङ्गा: २८९ । तत्र पर्याप्तस्य पनि संस्थानैः षनिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश:कीर्तिभ्यां च भगा: २८८, अपर्याप्तस्य हुण्डसेवार्त्तदुर्भगानादेयायश:कीर्तिपदैरेकः तस्यामेव षड्विंशती शरीरेण पर्याप्तस्य पराघातेऽन्यनरगतौ च पक्षिप्तायां २८, तत्र ये प्रागुक्ताः भगा: २८८ तेऽत्र गतिद्विकेन गुणिता अवगन्तव्या: ५७६ । तत: प्राणापानेन पर्याप्तस्योच्छासे क्षिप्ते २९, अत्रापि भगा: प्रागिब ५७६ । अथवा शरीरेण पर्याप्तस्योच्छ्रासेऽनुदिते उद्योते तूदिते २९, अत्रापि भङ्गा: ५७६ । सर्वसंख्ययैकोनविंशति भगा: ११५२ । ततो भाषया पर्याप्तस्यान्यतरस्वरक्षेपे ३०, अत्र यानि प्रागुच्छासेन ५७६ तान्येव स्वरद्रिकेन गुण्यन्ते, ततो जातानि ११५२ । अथवा प्राणापानेन पर्याप्तस्य स्वरेऽनुदिते उद्द्योते तूदिते ३०, अत्रापि प्रागिव भगा: ५७६ । सर्वसंख्यया त्रिंशति भनाः १७२८ । ततः स्वरसहितायां विंशति उद्योने प्रक्षिप्ते ३१, अत्र च ये प्राग् स्वरसहितायां त्रिंशति भङ्गाः ११५२ उक्तास्त एवात्रापि द्रष्टव्या: । सर्वसंख्ययाऽवैक्रियतिर्यक्पञ्चेन्द्रियाणामुदये भगा: ४९०६ । तथा तेषामेव तिर्यक्पञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदयस्थानानि पञ्च, नद्यथा→२५।२७ ॥२८॥२९॥३०॥ तत्र वैक्रिय वैक्रियाङ्गोपाङ्ग समचतुरस्त्रमुपघात प्रत्येकमिति पञ्च प्रकृतयः प्रागुक्तायां तिर्यक्पञ्चेन्द्रिययोग्यायामेकविंशतौ प्रक्षिप्यन्ते, तिथंगानुपूर्वी चापनीयते, तत: २५ स्यादत्र सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यश:कीय॑यश कीर्तिभ्यां च भगा: ८ । तत: शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां २७ तत्रापि प्रागिव भगाः ८। तनः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्ते २८, अत्राऽपि ८ | अथवा शरीरेण पर्याप्तस्योच्छ्वासेऽनुदिते उद्योते तूदिने २८, अत्रापि ८ । सर्वसंख्ययाऽष्टाविंशतौ भङ्गा: १६ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशती सुस्वरे क्षिप्ते २९, अवापि प्रागिव १. प्यया प्राकृततिः - ला- पा |
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy