Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१३८
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतम्
क्षिप्ते प्रागुक्ता पञ्चविंशति: षड्विंशतिः स्यात्, तत्र प्रावदेक एव भङ्गः, तेजस्कायिकवायुकायिकयोरातपोद्योतयशः कीर्त्तीनामुदयाऽभावात् तदाश्रिता विकल्पा न प्राप्यन्ते, सर्वसंख्यया षड्विंशतौ त्रयोदश भङ्गाः । तथा प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां षड्विंशतावाऽऽतपोद्योतयोरन्यतरस्मिन् प्रक्षिप्ते २७, अत्र भङ्गाः ६, ये प्रागातपोद्यातान्यतरसहितायां षड्वंशती प्रतिपादिताः । सर्वसंख्यया चैकेन्द्रियाणां भङ्गाः ४२ ।
द्वीन्द्रियाणामुदयस्थानानि ६, तद्यथा २१/२६ / २८ २९ ३० ३१ | नत्र तिर्यद्विकं द्वीन्द्रियजातिस्त्रर्स बादरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्ययशः कीर्त्यो रेकतरेत्येता नव प्रकृतयो द्वादशसंख्याभिर्ध्रुवोदयाभि: सह २१, एषा चापान्तरालगतौ वर्तमानस्य द्वीन्द्रियस्याऽवाप्यतेऽत्र भङ्गाः ३, तद्यथा अपर्याप्तनामोदये वर्तमानस्यायशः कीर्त्त्या सहकः, पर्याप्तकनामोदये वर्तमानस्य यशः कीर्त्य - यशः कीर्त्तिभ्याम् २ । तस्यैव च शरीरस्थस्यौदारिकमौदारिकाङ्गोपाङ्ग हुण्डं सेवार्त्तमुपघातं प्रत्येकमिति षट् प्रकृतयः प्रक्षिष्यन्ते, तिर्यगानुपूर्वी चापनीयते जाताः २६, अत्रापि भङ्गाः ३ प्रागिव । ततः शरीरपर्याप्त्या पर्याप्तस्याप्रशस्तविहायोगति - पराघातयोः प्रक्षिप्तयोः २८, अत्र यशः कीर्त्ययश: कीर्त्तिभ्यां भङ्गौ २, अपर्याप्तकाप्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छा क्षिप्ते २९, अत्रापि तावेव द्वौ भङ्गौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि नूदिते २९ । अत्रापि भङ्गौ २ प्रागिव । सर्वेऽप्येकोनत्रिंशति भङ्गाः ४ । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायामेकोनत्रिंशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते ३०, अत्र सुस्वरदु: स्वस्यश:कीर्त्ययश: कीर्तिपदैः भङ्गाः ४ । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनूदिते उद्योते तूदिते ३०, अत्र यशः कीर्त्ययशः कीर्तिभ्यां भङ्गौ २१ सर्वे त्रिंशति ६ । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशति उद्यो प्रक्षिप्ते ३१, अत्र सुस्वरदुः स्वरयशः कीर्त्ययश: कीर्तिपदैः ४ भङ्गाः । सर्वसंख्यया द्वीन्द्रियाणां भङ्गाः २२ | एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च प्रत्येकं षट् षट् उदयस्थानानि भावनीयानि । प्रत्येकं च भङ्गाः द्वाविंशति: द्वाविंशतिः, सर्वसंख्या विकलेन्द्रियाणां भङ्गाः ६६ ।
प्राकृततिर्यक्पञ्चेन्द्रियाणामुदयस्थानानि षट् तद्यथा २१/२६|२८|२९|३०|३१| तत्र तिर्यगूद्विकं पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तापर्याप्तयोरेकतरं सुभगदुभंगयोरेकतरमादेयाऽनादेययोरेकतरं यशःकीर्त्ययशःकीर्त्यो रेकतरेत्येता नवप्रकृतयो द्वादशसंख्याभिर्ध्रुवोदयाभिः सह २१, एषा चापान्तरालगतौ वर्तमानस्य तिर्यक्पञ्चेन्द्रियस्यावगन्तव्याऽत्र भङ्गाः ९, तत्र पर्याप्त कनामोदये वर्त्तमानस्य सुभगादुर्भगाभ्या

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220