Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 174
________________ ३ गुणरत्नसूरिविरचित-अवचूर्युपेतम् पराघातमुच्छ्वासं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तकं प्रत्येकं स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगं सुस्वरमादेयं यश:कीर्त्ययश:कीर्यो रेकतरा निर्माणमित्येतच्च बन्धस्थानं मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशबिरतानां स देवगतिप्रायोग्यं बनतामवसेयम् । अत्र स्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तिपदैरष्टौ भङ्गाः । एषैव २८ तीर्थकरसहिता २९, अत्रापि त एवाष्टौ भङ्गाः । नवरमेतद्देवगतिप्रायोग्य बध्नतामबिरतसम्यग्दृष्टीनामबसेयम् । ३० पुनरियं देवद्विकं पञ्चेन्द्रियजातिक्रियं वैक्रियागोपागमाहारकमाहारकागोपागं तैजसकामणे समचतुरस्रं वर्णादिचतुष्टयमगुरुलघूपधातं पराघातमुच्छ्वासं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तं प्रत्येकं शुभं स्थिरं सुभगं सुस्वरमादेयं यश:कीर्तिर्निर्माणमित्येतद्वन्ध स्थानं देवगतिप्रायोग्यं बध्ननोऽप्रमत्तस्यापूर्वकरणस्याऽवगन्तव्यम्, अत्र सर्वाण्यपि शुभान्येव कर्माणि बन्धमायान्तीति कृत्वैक एव भगः । एषैव ३० तीर्थकरसहिता ३१ तस्मादत्राप्येक एव भगः । सर्वसंख्यया देवगतिप्रायोग्यबन्धस्थानेषु भगा: १८ । तथा नरकगतिप्रायोग्यं बध्नत एकं बन्धस्थानं २८, सा चेयं नरकद्विकं पञ्चेन्द्रियजातिक्रियं वैक्रियाङ्गोपाङ्गं तैजसकामणे हुण्डं वर्णादिचतुष्टयमगुरुलघूपधानं पराघातमुच्छ्वासमप्रशस्तविहायोगनिःबादरंपर्याप्तंप्रत्येकमस्थिरमशुभंदर्भगंद:स्वरमनादेयमयश:कीर्ति-निर्माणमित्येतदष्टाविंशतिप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टेरवसेयम् । अत्र सर्वेषामशुभत्वादेक एव भङ्गः । एकं तु बन्धस्थानं यश:कीर्तिलक्षणम्, तच्च देवगतिप्रायोग्यं बन्धे व्यवच्छिन्नेऽपूर्वकरणादीनां त्रयाणामवगन्तव्यम् ॥२४|| सम्प्रति कस्मिन्बन्धस्थाने कति भगा: सर्वसंख्यया प्राप्यन्ने इत्येतदाह-- चउ पणवीसा सोलस नव बाणाईसया य अडयाला । एयालुत्तर छायालसया एकेकबंधविही ॥२५॥ चउ० बयोविंशत्यादिषु बन्धस्थानेषु यथासंख्यं चतुरादिसंख्याबन्धविधयो = बन्धभङ्गा वेदितव्याः । सर्वसंख्यया सर्वबन्धस्थानेषु भगा: १३९४५ ॥२५|| सम्प्रत्युदयस्थानान्याह - । १-० नानां सर्वविरतानां च देव-पा1 २- तुलना- सप्ततिकाभाध्यगाथा-८ ।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220