Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 172
________________ [१३न्न गुणरत्नसूरिविरचित-अवजूऍपेतम् तथा स्थिरास्थिरयोरेकतरं, शुभाशुभर्पोरेकनरं, यश-कीर्त्ययश:कीरिकतरा । अत्र भङ्गा: २०, नत्र बादरपर्याप्तप्रत्येकस्थिरशुभेषु बध्यमानेषु यश:कीर्त्या सहको, द्वीतीयोऽयशःकीर्त्या, एतौ द्वौ च भगौ शुभपदेन लब्धौ । एवमशुभेनापि द्वौ भगौ लभ्यते । एते चत्वारः स्थिरपदेन लब्धाः एवमस्थिरपदेनाऽपि चत्वारो भगा लभ्यन्ते, ततो जाता अष्टौ । एवं पर्याप्तबादरसाधारणेषु बद्भचमानेषु स्थिरास्थिरशुभाशुभाऽयश:कीर्तिपदैश्चत्वारो, यतः साधारणेन सह यश:कीर्तिबन्धो न स्यात् । सूक्ष्मपर्याप्तनाम्नोर्बध्यमानयो: प्रत्येकसाधारणस्थिरास्थिरशुभाशुभायश:कीर्तिपदैरप्टो, सूक्ष्मेणापि सह यश:कीर्तिबन्धाभावात् । तदेवं सर्वसंख्यया पञ्चविंशतिबन्धे भगा: २० । एषैव पञ्चविंशतिरातपोद्योतान्यतरसहिता षड्विंशतिः, नवरं बादरसूक्ष्मयोः स्थाने बादरं, प्रत्येकसाधारणयो: स्थाने प्रत्येकनाम । एतच्च बन्धस्थानं पर्याप्तकैकेन्द्रियप्रायोग्यमातपोयोतान्यतरसहितं बध्नतो मिथ्यादृष्टेरवगन्तव्यम् । अब भगा: १६, ते चातपोद्योनस्थिरास्थिरशुभाशुभयश:कीर्त्ययश कीर्तिपदैरवसेयाः । आतपोद्योताभ्यां च सह सूक्ष्मसाधारणबन्धो न स्यात्, ततस्तदाश्रिता विकल्पा अन न प्राप्यन्ते । एकेन्द्रियाणां सर्वसंख्यया भगा: ४० । द्वीन्द्रियप्रायोग्य बनतो बन्धस्थानानि त्रीगि, तपथा--- १५:२५।३०। तत्र नियंग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकार्मणानि हण्डं सेवार्तमौदारिकाङ्गोपाङ्गं वर्णादिचतुष्टयम्, अगुरुलधूपघानं त्रसनाम बादरमपर्याप्तं प्रत्येकमस्थिरमशुभं दुर्भगमनादेयमयश:कीर्तिनिर्माणमित्येवं पञ्चविंशतिप्रकृतिरूपं बन्धस्थानमपर्याप्तकद्वीन्द्रियप्रायोग्यं बननो मिथ्यादृष्टेरवसेयम् । अपर्याप्तकेन च सह परावर्त्तमानप्रकृतयोऽशुभा एवं बन्धमायान्ति ततोऽत्रैक एव भगः । एषैव पञ्चविंशति: पराघातोच्यासाप्र. शस्तविहायोगतिपर्याप्तकदुःस्वरसहिता अपर्याप्तकरहिता एकोनत्रिंशद्भवति, नवरमस्थिरस्थाने स्थिरास्थिरयोरेकतरम्, अशुभस्थाने शुभाशुभयोरेकतरम्, अयश-कीर्तिस्थाने यश:कीर्त्ययश:कीयोरेकनरा । एतच्च बन्धस्थानं पर्याप्तकद्वीन्द्रियप्रायोग्य बनतो मिथ्यादृष्टेः प्रत्येतव्यम् । अत्र स्थिरास्थिरशुभाशुभयश:की पयश कीर्तिपदैरप्टौ भगाः । सैव २९ उद्योतसहिता ३० । अत्रापि त एवाप्टौ भङ्गाः । सर्वसंख्यया १७ । एवं त्रीन्द्रियप्रायोग्यं चतुरिन्द्रियप्रायोग्यं च बनतो मिथ्यादृष्टेत्रीणि बन्धस्थानानि वाच्यानि, नवरं जातिस्थाने नामपरावतः कार्यो, भङ्गाश्च प्रत्येक १७, सर्वसंख्यया विकलेन्द्रियाणां भगा: ५१| तिर्यग्गतिपञ्चेन्द्रियप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि, नद्यथा-→२५।२९।३०। नत्र २५ द्वीन्द्रियप्रायोग्यं बध्नत इव द्रष्टव्या । २९ पुनरियं तिर्यग्गनितिर्यगानुपूयौं पञ्चेन्द्रियजातिरौदा. रिकमौदारिकाङ्गोपाङ्ग तैजसकामणे षण्णां संस्थानानामेकतमत्संस्थानं षण्णां संहननानामेकतमत्संहननं

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220