Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 167
________________ सप्ततिकाप्रकरणम् एक छक्केक्कारस दस सत्त चक्क एक्कगा चैव । एए चरबीसगया चडवीस दुगेकमेक्कारा ||१८|| एक्क॰ इह दशान्दयुदयस्थानान्यधिकृत्य यथासंख्यं प्रदयोजना कार्या । सा चैवं --→ दशोदये एका चतुर्विंशतिः । नवोदये पडित्यादि यावच्चतुष्कोदये एका चतुर्विंशतिः । 'एए चउवीसगय' त्ति एतेऽनन्तरोक्ता एकादिकाः संख्याविशेषाश्वतुर्विंशतिगताश्चतुर्विंदात्यभिधायका ज्ञातव्या । एताव सर्वसंख्यया चत्वारिंशत् । तथा 'चवीस दुगे'न्ति द्विकोदये चतुर्विंशतिरेका भङ्गकानाम्, एतच्च मतान्तरेणोक्तमन्यथा स्वमते द्वादशैव भङ्गाः । तथैकोदये एकादश भगास्ते चैवम् चतुर्विधबन्धे चत्वारस्त्रिविधबन्धे ३ विध६, गन्धामा ९ ॥१८॥ → सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसंख्यानिरूपणार्थमाह्· नवपंचाणउइस एह्रदयविगप्पेहिँ मोहिया जीवा । अउणत्तरिएगुत्तरिपयविंदसएहिं विन्नेया ॥ १९ ॥ १२९ नव० इह दशादिषु द्विकपर्यवसानेषु उदयस्थानभङ्गानामेकचत्वारिंशच्चतुर्विंशतयो लब्धास्ततः एकचत्वारिंशच्चतुर्विंशत्या गुण्यते, गुणितायां च सत्यां जातानि नवशतानि चतुरशीत्यधिकानि । ततस्तत्रैकोदयभङ्गाः ११ प्रक्षिप्यन्ते । तेषु च प्रक्षिप्तेषु ९९५ स्युरेतावद्भिरुदयस्थानविकल्यैर्यथायोगं सर्वे संसारिणी जीवा मोहिता विज्ञेयाः । सम्प्रति पदसंख्यामाह - 'अउणे' त्यादि उत्तरार्द्धम् । इह पदानि नाम मिध्यात्वमप्रत्याख्या नक्रोध इत्येवमादीनि, ततो वृन्दानां = दशाद्युदयस्थानरूपाणां पदानि पदवृन्दानि तेषां शतैरेकसप्तत्यधिककोनसप्ततिसंख्यैमहिता = एतावत्संख्याभिः कर्मप्रकृतिभिर्यथायोगं मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः । अथ कथमेतावती संख्या स्यात् ? उच्यते इह दशोदये दशपदानि दशप्रकृतय उदयमागता इत्यर्थः । एवं नवोदयादिष्वपि भावनीयम् । ततो दशोदये एको दशभिर्गुण्यते, नवोदयाश्च पटू नवभिरेवं नावद्यावत् द्विकोदय एको द्वाभ्यां गुणयित्वा चैते सर्वेऽप्येकत्र मील्यन्ते ततो जाते द्वे शते नवत्यधिके । एतेषु प्रत्येकमेकैका चतुर्विंशतिर्भङ्गकानां प्राप्यत इत्येते भूयश्चतुर्विंशत्या गुण्यन्ते, गुणितेषु च सत्सु एकोदयभङ्गपदान्येकादश प्रक्षिष्यन्ते, ततो यथोक्तसंख्यान्येव पदानां शतानि स्युः, इयं चोदयस्थानसंख्या -

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220