Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 145
________________ शतकनामा पञ्चमः कर्मग्रन्थः लोग० चतुर्दशरज्जवात्मकलोकस्य प्रदेशा उत्सर्पिण्याश्च समया अनुभागबन्धस्थानानि च यदा यथातथा मरणेन व्युत्क्रममरणेन जीवेन स्पृश्यन्ते तदा क्षेत्रकालभावपुद्रलपरावर्त्ताः स्थूलाः स्युः, क्रममरणेन तु यदा जीबेन स्पृश्यन्ते तदा सूक्ष्मा एते भवन्ति । भावपुद्गलपरावर्त्तस्पष्टीकरणार्थमिमे गाथे, तद्यथा → १०७ 'एगसमयम्मि लोए सुहुमणिजीआ व जओ पविसंति ते हुतऽसंखलोगप्परसतुल्ला असंखेज्जा ॥१॥ तो असंखगुणि अगणिकाया उ तेसिं कार्यदिई । तत्तो संजमअणुभागबंधठाणाणऽसंखाणि ॥२॥ [प्र० स० गा० १०५०/१०५१] व्याख्या- एकस्मिन् समये पृथिवीकायिकादयो जीबाः सप्तम्यर्थत्वात्प्रथमायाः सूक्ष्माग्निजीवेषु प्रविशन्ति तेऽसंख्येयलोकाकाशप्रदेशतुल्या, ये पुनः पूर्वमुत्पन्नास्तेजस्कायिका: पुनर्मृत्वा तेनैव पर्यायेणोत्पद्यन्ते ते न गृह्यन्ते तेषां पूर्वमेव प्रविष्टत्वात् । ततस्तेभ्य एकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्योऽसंख्यगुणिताः सूक्ष्माग्निकाः पूर्वोत्पन्न असून, तेभ्योऽपि तेषामेव प्रत्येकं कायस्थितिरसंख्यातगुणा, एकैकस्यापि सूक्ष्माग्नेरसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कार्यस्थितेरुत्कर्षत उक्तत्वात्तस्या अपि सकाशात् संयमस्थानान्यनुभागस्थानानि च प्रत्येकमसंख्येयगुणानि मिथस्तुल्यानि, कायस्थितावसंख्येयानां स्थितिबन्धानां भावात्, एकैकस्मिंश्च स्थितिबन्धेऽसंख्येयानामनुभागबन्धस्थानानां सद्भावात् । अनुभागबन्धस्थानमेकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितैकसमयबद्धरससमुदायपरिमाणं, तानि चानुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि तेषां चानुभागबन्धस्थानानां निष्पादका ये कषायोदयरूपा अध्यवसायविशेषास्तेप्यनुभागबन्धस्थानानि इत्युच्यन्ते, तेपि तावन्त एव ॥ 'ताण मरणं जया पुाणि कमुकमेण सव्वाणि भावम्मि बायरो सुमो उ कमेण बोधव्वो ।' [प्र० स० गा० १०५२] यावता कालेन क्रमेणोत्क्रमेण च सर्वेष्वप्यनुभागबन्धाध्यवसायेषु वर्तमानः स्यात् तावान् कालो बादरभावपुद्गलपरावर्त्तः । सूक्ष्मो यथा कश्चिज्जन्तुः सर्वजघन्ये कषायोदयरूपेऽध्यवसाये मृतस्ततो यदि स एवान्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तन्मरणं

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220