________________
शतकनामा पञ्चमः कर्मग्रन्थः
लोग० चतुर्दशरज्जवात्मकलोकस्य प्रदेशा उत्सर्पिण्याश्च समया अनुभागबन्धस्थानानि च यदा यथातथा मरणेन व्युत्क्रममरणेन जीवेन स्पृश्यन्ते तदा क्षेत्रकालभावपुद्रलपरावर्त्ताः स्थूलाः स्युः, क्रममरणेन तु यदा जीबेन स्पृश्यन्ते तदा सूक्ष्मा एते भवन्ति । भावपुद्गलपरावर्त्तस्पष्टीकरणार्थमिमे गाथे,
तद्यथा →
१०७
'एगसमयम्मि लोए सुहुमणिजीआ व जओ पविसंति ते हुतऽसंखलोगप्परसतुल्ला असंखेज्जा ॥१॥ तो असंखगुणि अगणिकाया उ तेसिं कार्यदिई । तत्तो संजमअणुभागबंधठाणाणऽसंखाणि ॥२॥ [प्र० स० गा० १०५०/१०५१]
व्याख्या- एकस्मिन् समये पृथिवीकायिकादयो जीबाः सप्तम्यर्थत्वात्प्रथमायाः सूक्ष्माग्निजीवेषु प्रविशन्ति तेऽसंख्येयलोकाकाशप्रदेशतुल्या, ये पुनः पूर्वमुत्पन्नास्तेजस्कायिका: पुनर्मृत्वा तेनैव पर्यायेणोत्पद्यन्ते ते न गृह्यन्ते तेषां पूर्वमेव प्रविष्टत्वात् । ततस्तेभ्य एकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्योऽसंख्यगुणिताः सूक्ष्माग्निकाः पूर्वोत्पन्न असून, तेभ्योऽपि तेषामेव प्रत्येकं कायस्थितिरसंख्यातगुणा, एकैकस्यापि सूक्ष्माग्नेरसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कार्यस्थितेरुत्कर्षत उक्तत्वात्तस्या अपि सकाशात् संयमस्थानान्यनुभागस्थानानि च प्रत्येकमसंख्येयगुणानि मिथस्तुल्यानि, कायस्थितावसंख्येयानां स्थितिबन्धानां भावात्, एकैकस्मिंश्च स्थितिबन्धेऽसंख्येयानामनुभागबन्धस्थानानां सद्भावात् । अनुभागबन्धस्थानमेकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितैकसमयबद्धरससमुदायपरिमाणं, तानि चानुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि तेषां चानुभागबन्धस्थानानां निष्पादका ये कषायोदयरूपा अध्यवसायविशेषास्तेप्यनुभागबन्धस्थानानि इत्युच्यन्ते, तेपि तावन्त
एव ॥
'ताण मरणं जया पुाणि कमुकमेण सव्वाणि भावम्मि बायरो सुमो उ कमेण बोधव्वो ।' [प्र० स० गा० १०५२]
यावता कालेन क्रमेणोत्क्रमेण च सर्वेष्वप्यनुभागबन्धाध्यवसायेषु वर्तमानः स्यात् तावान् कालो बादरभावपुद्गलपरावर्त्तः । सूक्ष्मो यथा कश्चिज्जन्तुः सर्वजघन्ये कषायोदयरूपेऽध्यवसाये मृतस्ततो यदि स एवान्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तन्मरणं