SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०० गुणरत्नत्रिविरचित्त-अवच्र्युपेतः गण्यते न शेषाण्युत्क्रमभावीन्यनन्तान्यपि मरणानि । एवं क्रमेण सर्वाण्यप्यनुभागबन्धाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि स्युस्तावान् कालः सूक्ष्मभावपद्गलपरावतः । क्षेत्रतः सूक्ष्मपुद्गलपरावतः क्षेत्रतो मार्गणायां गृह्यते, शेषाः प्ररूपणामात्रम् ।।८८|| अप्पयरपयडिबंधी उकडजोगी य सन्नि पज्जत्तो। कुणइ पएसुक्कोसं जहन्नयं तस्स बच्चासे ॥८९॥ यदा बहीना प्रकृतीनां बन्धको भवति तदा भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यते। अल्पतरप्रकृतिबन्धे बध्यमाने प्रकृतीनामधिकभागलाभादुत्कृष्ट प्रदेशबन्धो लभ्यते, इत्यल्पतरप्रकृतिबन्धीत्युक्तं, 'जोगा पयडिपएसं' [गाथा-९६]ति वचनादुत्कृष्टयोग एवोत्कृष्टप्रदेशबन्ध इत्युत्कटयोगीत्युक्तम्। उत्कृष्टयोगश्च पर्याप्तसंज्ञिन एव, जघन्यप्रदेशबन्ध: पुनर्बहुतरप्रकृनिबन्धकस्यानुत्कटयोगिनोऽपर्याप्तसूक्ष्मैकेन्द्रियादेरिति विपर्यासः ।।८।। उत्कृष्टप्रदेशबन्धस्वामिन आहमिच्छ अजयचउ आऊ वितिगुण विणु मोहि सत्त मिच्छाई । छण्हं सतरस सुहुमो अजया देसा बितिकसाए ॥९॥ मिच्छः मिथ्यादृशोऽविरतादयोऽप्रमत्तान्ताश्चत्वारश्वायुषामुत्कृष्टबन्धं कुर्वन्ति । सास्वादनमिश्रयोरल्पकालभावितयाऽनुत्कटयोगादिभावाच्च न तेषां तथाविधस्तद्वन्ध; | अपूर्वादयस्त्वायुर्वन्धका एव न स्युः । मिश्रसास्वादनवर्जा मिथ्यादृगादयोऽनिवृत्त्यन्ताः सप्त-सप्तविधबन्धका । उत्कटयोगिनश्च मोहस्योत्कृष्टप्रदेशबन्धका मिश्रसास्वादनयोः सप्तविधबन्धकत्वेऽपि तथाविधोत्कटयोगाभावाद् वर्जनम् । षण्णां मोहायुर्वर्जमूलप्रकृतीनां सातसहितानां 'चउदसणु [क० स्त० गा०१२] इत्यादिसप्तदशप्रकृतीनां चोत्कृष्ट योगी सूक्ष्मः, सूक्ष्मसम्परायो हि मोहायुषी न बध्नाति, अतस्तद्भागोऽधिको लभ्यते इत्यस्यैव ग्रहणम् । उत्कृष्टयोगिनः सप्तविधबन्धका अविरता देशाविरताश्च, द्वितीयतृतीयकषायाणां प्राग् व्यवच्छिन्न. मिथ्यात्वानन्तानुबन्ध्याद्यधिकभागलाभात् ।।१०।। १. बन्धे वाध्य. . है।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy