________________
शतकनामा पञ्चमः कर्मग्रन्थः
पण अनियट्टी सुखगइनराउसुरसुभगतिगविउन्विद्गं । समचउरंसमसायं वरं मिच्छो व सम्मो वा ॥११॥
पण पश्चानां पुंवेद-संज्वलनचतुष्करूपाणां सर्वोत्कृष्टयोगोऽनिवृत्तिबादर उत्कृष्टं प्रदेश बध्नाति, प्राग्व्यवच्छिन्नशेषवेदकषायायधिकभागलाभात् । सुखगत्यादित्रयोदशप्रकृतीनां मिथ्यादृष्टिः सम्यग्दृष्टिर्वोत्कृष्टप्रदेशबन्धकः । असातस्य सप्तविधबन्धकालसमये सातस्यायुषां भागक्षेपात् । नरदेवायुषोरष्टविधबन्धे शेषायुस्त्रयभागक्षेपात् । शेषनामप्रकृतिनवकस्य देवगतियोग्याष्टाविंशतिबन्धकाले एकोनत्रिंशदादिबन्धापेक्षयाऽल्पभागपातात् । अधस्तनबन्धस्थानेष्वेता बन्ध एव नायान्ति । अष्टाविंशतिमेव बज्रर्षभनाराचसहितां नरगतियोग्यामेकोनत्रिंशतं बध्नतो बज्रस्योत्कृष्टप्रदेशबन्धस्त्रिंशदादिबन्धापेक्षयाऽल्पभागपातात् ।।९१||
निद्दापयलादुजुयलभयकुच्छातित्थ सम्मगो सुजई । आहारदुर्ग सेसा उकोसपएसगा मिच्छो ॥१२॥
निद्दा० निद्रा-प्रचलयोर्व्यवच्छिन्नबन्धस्त्यानद्धित्रिकभागस्य क्षेपात् । हास्यरत्यरतिशोकभयजुगुप्साजिनानां च प्राग्व्यवच्छिन्नबन्धमिथ्यात्वादिभागलाभादेताः प्रकृतीरुत्कृष्टप्रदेशबन्धादुत्कृष्टयोगी सप्तविधबन्धको ज्ञानादित्रयेण सम्यग्मोक्षमार्गं गच्छतीति सम्मगो' सम्यग्दृष्टिः करोति । सुयतिरप्रमत्तोऽपूर्वो वाऽऽहारकद्विकं नामकर्मणो देवगतियोग्यत्रिंशद्वन्धस्थानकाले उत्कृष्टयोगादिविशेषण उत्कृष्टप्रदेशं बध्नाति, एकत्रिंशगन्धापेक्षया तत्र तस्य भागाधिक्यात् । शेषा उक्तव्यतिरिक्ताः ६६प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टप्रदेशा बध्नाति । तत्र नरद्रिकपञ्चेन्द्रिजात्यौदारिकद्विकतैजसकार्मणवर्णादिचतुष्काऽगुरुलघूपघातपराधातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभयशःकीर्तिनिर्माणलक्षणाः पञ्चविंशतिप्रकृतीर्मुक्त्वा शेषाः ४१ सम्यग्दृष्टेर्बन्ध एव नायान्ति, यद्यपि तन्मध्यात् काश्चित् सास्वादनोऽपि बध्नाति तथाऽप्यस्योत्कृष्टयोगो न लभ्यते, अत एताः ४१ प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगी मूलप्रकृतीनामुत्तरप्रकृतीनां च यथासम्भवमल्पतरबन्धक उत्कृष्टप्रदेशाः करोति । या अपि २५ प्रकृतयः सम्यग्दृष्टेबन्धमायान्ति ता अपि नरद्विकपञ्चेन्द्रिजात्यौ. दारिकाङ्गोपाङ्गपराघातोच्चासत्रसशुभस्थिरपर्याप्तवनपञ्चदशप्रकृतीनामपर्याप्पैकेन्द्रिपयोग्पनामसत्कत्रयोविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टप्रदेशबन्धो लभ्यते, नोत्तरः पञ्चविंशत्यादिभिर्भागबाहुल्यात् । नरद्विकादिदशप्रकृतीनां पर्याप्तकेन्द्रिय-पर्याप्तत्रसयोग्यपञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टप्रदेश