SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [११२ गुणरत्नसूरिविरचित-अवचूर्युप्तः बन्धो, नोत्तरैः षड्विंशत्यादिभिर्भागबाहुल्यात् । त्रयोविंशति-पञ्चविंशतिबन्धौ सम्यग्दृष्टेर्न भवतो, देवपर्याप्तनरयोग्यबन्धकत्वात् नस्य ||१२|| जघन्यप्रदेशबन्धमाहसुमुणी दुन्नि असन्नी नरयतिग सुराउ सुरविउचिदुगं । सम्मो जिणं जहन्नं सुहुमनिगोयाइखणि सेसा ॥१३॥ सुमु० अप्रमत्तः परावर्त्तमानयोगोऽष्टविबन्धक: स्वप्रायोग्यसर्वजघन्यवीर्ये स्थितो नाम्न एकत्रिंशत्प्रकृतीबंध्नन्नाहारकद्विकं जघन्यप्रदेश बध्नाति । असंज्ञिनस्तद्वन्धकेषु सर्वजघन्ययोगतया नरकत्रिकसुरायुर्लक्षणस्य प्रकृतिचतुष्कस्य जघन्यप्रदेशबन्धः । सुरद्विकवैक्रियद्विकजिननाम्नां सम्यग्दृष्टेर्जघन्यप्रदेशबन्धस्तथाहि→कश्चिदविरतसम्यग्दृष्टिर्बद्धजिननामा देवनारकेभ्ययुत्वा नरकेषूत्पन्नो भवाद्यसमये जिनसहितां देवगतियोग्यां नामैकोनत्रिंशतं बध्नन् सुरद्रिक-वैक्रियद्विकयोर्जघन्यप्रदेश करोति । तदानीमेव तस्य प्रायोग्यजघन्ययोगित्वात् । जिननाम्नस्तु कश्चिदविरतसम्यग्दृष्टिर्बद्धजिननामाऽनुत्तरसुरेपूत्पन्नः स्वभवाद्यसमये जघन्यप्रदेशबन्धकस्तद्वन्धकेषु तस्यैव जघन्ययोगित्वात्। नारकाणामपि तद्वन्धसम्भवोऽस्ति केवलं न तेषां तथाजघन्यपोगः। शेषा नवोत्तरशतप्रकृतीरपर्याप्तसूक्ष्मनिगोदजीवो यथासम्भवं बहीः प्रकृतीबंध्नन् सर्वजघन्यवीर्यलब्धियुक्तो भवाद्यसमये जघन्यप्रदेशा बध्नाति, सर्वजघन्ययोगित्वात् तस्य ॥९३|| दसणछगभयकुच्छाबितितुरियकसायविग्घनाणाणं । मूलछगेऽणुकोसो चउह दुहा सेसि सब्वत्थ ॥१४॥ दंस० दर्शनावरणचतुष्कं निद्राप्रचलेतिदर्शनषट्कादित्रिंशदुत्तरप्रकृतीनां मोहायुर्वर्जमूलप्रकृतिषट्के चानुत्कृष्टप्रदेशबन्धः साद्यनादिध्रुवाध्रुवतया चतुर्धापि स्यात् । तत्र मूलप्रकृतिषट्कस्य ज्ञानावरणान्तरायपञ्चकस्य चोत्कृष्टप्रदेशबन्धः क्षपकस्यौपशमिकस्य वा सूक्ष्मसम्परायस्योत्कृष्टयोगिन एकं द्वौ वा समयौ यावल्लभ्यते, तस्य पश्चिधबन्धकत्वेन मोहायुर्भागलाभात् । स चोपशान्तमोहावस्थायामारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽत्रैव प्रतिपत्य यदाऽनुत्कृष्टं प्रदेशबन्धं करोति तदाऽसौ सादिः । तत्स्थानमप्राप्तानामनादिः, सदा बध्यमानत्वात् । अध्रुवध्रवौ भव्याभव्ययोः । चक्षुरचक्षुरवधिकेवलदर्शनावरणानामपि तथैव, केवलमत्र निद्रापञ्चकभागलाभाधिक्यमपि वाच्यम् । निद्राद्विकस्य त्वविरतादयोऽपूर्वान्ताः सर्वोत्कृष्टयोगिनः सप्तविध
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy