SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ शतकनामा पश्चमः कर्मग्रन्थः बन्धकाले एकं द्वौ वा समयौ आयुःस्त्यानद्धित्रिकभागाधिक्येनोत्कृष्टप्रदेशबन्धकाः। भयजुगुप्सयोरप्यविरतादयोऽपूर्वकरणान्ता उत्कृष्टयोगिन उत्कृष्टप्रदेशबन्धकाः, द्वितीयकषायाणां पुनरविरत उत्कृष्टयोगी उत्कृष्टप्रदेशबन्धकः, मिथ्यात्वानन्तानुबन्ध्यादिभागलाभात् । तृतीयकषायाणां तथैव देशविरतो, द्वितीयकपायाणामपि भागलाभात् । चतुर्थकषायाणामनिवृत्तिबादरस्तृतीयकषायाणामपि भागलाभात् । एषामुत्कृष्टप्रदेशबन्धं कृत्वा तत्स्थानादुत्कृष्टयोगाद्वा प्रतिपत्य पुनरनुत्कृष्टप्रदेशबन्धं कुर्वतामसौ सादिरनाद्यादिभावना पूर्ववत् । सेसि' त्ति शेषत्रिके-उत्कृष्टजघन्याजधन्यरूपे सर्वप्रकृतिविषयः प्रदेशबन्धः सादिरध्रुवश्चेति द्विधा । तत्र जघन्ययोगावसरेऽजधन्यप्रदेशबन्धादवतीर्य जघन्यमेनं कुर्वतो जघन्यः सादिः, अजघन्योऽध्रुवस्तस्माच्च पुनस्तमजघन्यं कुर्वतो जघन्योऽध्रुवोऽजब प. सादिः, समनुरकृष्ट दयात्कृिष्टं बनतोऽनुत्कृष्टोऽध्रुव, उत्कृष्टस्तु सादिः । तस्माच्च्युत्वा पुनरनुत्कृष्टबन्धे उत्कृष्टोऽध्रुवोऽनुत्कृष्टः सादिः । सर्ववेत्युक्तमूलोत्तरप्रकृतीनामनुत्कृष्टाज्जधन्याजघन्योत्कृष्टलक्षणे शेषत्रिके शेषमूलोत्तरप्रकृतीनां चतुर्विधेऽपि बन्धे साद्यध्रुवलक्षणं भगद्वयमेव ॥९॥ सेढिअसंखिजसे जोगट्ठाणाणि पयडिठिइभेया । ठिइबंधज्यवसायाणुभागठाणा असंखगुणा ॥९॥ तत्तो कम्मपएसा अणंतगुणिया तओ रसच्छेया । जोगा पयडिपएसं ठिइअणुभागं कसायाओ ॥१६॥ सेढी० तत्तो० बुद्ध्या घनीकृतस्य सप्तरज्जुमितलोकस्य सप्तरज्ज्वायताया विष्कम्भत एकप्रादेशिक्या: श्रेणेरसंख्ये[य]भागे यावन्तः प्रदेशास्तावत्प्रमाणानि जघन्यमध्यमोत्कृष्टभेदानि योगस्थानानि, तानि चोत्तरप्रभेदापेक्षया स्तोकानि, तेभ्यः प्रकृतीनां ज्ञानावरणादीनां क्षयोपशमवेचित्र्यैण द्रव्य-क्षेत्रादिसामग्रीविशेषेण च भेदा असंख्येयगुणास्ते भेदा; प्रकृतिभेदत्वात्प्रकृतयश्च इत्युच्यन्ते । यदुक्तम्'पत्तेयमक्खराई [ ] तथा 'संखाइआओ खलु' [ ] इत्यादि । ततश्चैतदावरणानामप्येतावन्तो भेदा भवन्त्येव, यत एकैकस्मिन् योगस्थाने वर्तमानैर्नानाजीवैः कालभेदादेक५- लाभात् । तथा प्रत्याख्यानावरणानां देशविस्तः सप्तविधवन्धक अपत्पाख्यानलाभो वाच्यः । तथा सञ्चलनक्रोपम्पानिवृत्तिगदरः पुंदे छिन्ने संज्वलनक्रोधादिचतुष्कं बघ्नन्नुत्कृष्टयोप्पुत्कृष्ट प्रदेशबन्धं करोति, मिथ्यात्वाऽऽधकषायद्वादशकनोकवापभागो लभ्यन इति कृत्वा । संचलनमानस्य स एव क्रोधबन्ध छिन्ने मज्वलनमानादिपं वजन्नत्कृटप्रदेशं करोति, क्रोधभागो लभ्यत इति कृत्वा । एवं लोभ पावत् । एषामुः- पा० ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy