________________
[११३
गुरिविरचित- अवचूर्म्युपेतः
जीवेन वाऽनेकपूर्वोक्तप्रकृत्यंशानां बध्यमानत्वात् । तेभ्योऽपि स्थितिविशेषा अन्तर्मुहूर्तसमयाधिकाऽन्तर्मुहूर्त्तादिलक्षणा असंख्येयगुणाः, एकैकस्याः प्रकृतेरसंख्यातैः स्थितिविशेषैर्बध्यमानत्वात् । ततोऽपि तासां स्थितीनां बन्धाध्यवसायस्थानान्यसंख्येयगुणानि, एकैकस्यापि स्थितिविशेषस्याऽसंख्येयलोकाकाशप्रदेशमाणैरध्यवसायस्थानैर्जन्यत्वात् । ततोऽनुभागबन्धाध्यवसायस्थानान्यसंख्येयगुणानि, सर्वजधन्यस्यापि स्थितिबन्धाध्यवसायस्थानस्य देशक्षेत्रादिभेदेनाऽसंख्यैरनुभागबन्धाध्यवसायस्थानैर्बध्यमानत्वात् । ततः कर्मप्रदेशाः कर्माणोऽनन्तगुणास्ततोऽप्यनन्तगुणास्तेषां रसच्छेदाः, एकैकपरमाणुसम्बन्धिनो रसस्य के - लिप्रज्ञया छिद्यमानस्य सर्वजीवानन्तगुणाविभागपलिच्छेददानात् । 'जोगा पयडिपएस' ति योगात् प्रकृतयश्च प्रदेशाश्च प्रकृतिप्रदेशं तज्जीवः करोतीति सम्बन्धः । प्रकृतिप्रदेशबन्धयोर्योगा हेतुरित्यर्थः । यद्यपि पूर्वं मिथ्यात्वादयः सामान्येन कर्मणो बन्धहेतव उक्तास्तथाप्याद्यकारणत्रयाभावेऽप्युपशान्तमोहादिषु केवलयोगसद्भावे वेदनीयलक्षणा प्रकृतिस्तत्प्रदेशाश्च बध्यन्ते, अयोग्यवस्थायां तु योगाभावे न बध्यन्त इति ज्ञायते प्रकृति प्रदेशबन्धयोर्योग एव प्रधानं कारणम्, योगस्तावज्जीवस्य वीर्यमुच्यते । तत्र सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यस्य प्रदेशाः केचिदल्पवीर्याः केचिद्वहुवहुतरबहुतमादिवीर्योपेतास्तत्र सर्वजधन्यवीर्ययुक्तस्यापि प्रदेशस्य सम्बन्धि वीर्यं प्रज्ञाच्छेदेन छिद्यमानमसंख्येयलोकाकाशप्रदेशप्रमाणान् भागान् प्रयच्छति । तस्योत्कृष्टवीर्ययुक्ते प्रदेशे यद्वीर्यं तदेतेभ्योऽसंख्येयगुणान् भागान् प्रयच्छति । तत्र पर्याप्ताः सर्वे स्वप्रायोग्ये सर्वजघन्ययोगस्थाने जधन्यतः समयं उत्कृष्टतश्चतुर: समयान् यावद्वर्त्तन्ते ततः परमन्यद्योगस्थानमुपजायते । स्वप्रायोग्योत्कृष्टयोगस्थाने तु जघन्यतः समयमुत्कर्षस्तु द्वौ समयौ । मध्यमेषु तु जघन्यतः समयमुत्कृष्टतस्तु समयत्रिकादारभ्याष्टौ यावत् । अपर्याप्तास्तु सर्वेऽप्येकस्मिन् योगस्थाने एकमेव समयमवतिष्ठन्ते, ततः परमसंख्येयगुणवृद्धेषु प्रतिसमयमन्यान्ययोगस्थानेषु संक्रामन्ति । एवं जघन्ये योगे जघन्यं मध्यमे मध्यममुत्कृष्टे तूत्कृष्टं प्रदेशबन्धं जीवः करोति । 'टिइ अणुभागं' ति स्थितिश्चानुभागश्च तत्कषायात् करोति । कषाया ह्युदीर्णा नानाजीवानां कालभेदेन एकजीवस्य वा सर्वजघन्याया अपि ज्ञानावरणादिकर्मस्थितेर्निर्वर्तकान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यन्तर्मुहूर्त्तकान्यध्यवसायस्थानानि जनयन्ति । समयाधिकतज्जघन्यस्थितिजनकानि तु त एव, तेभ्यस्तानि विशेषाधिकानि जनयन्ति, एवं तावत् यावत्सर्वोत्कृष्टस्थितिजनकाध्यवसायस्थानानि विशेषाधिकानि निर्वर्त्तयन्ति एतानि च सर्वाण्यपि मिलितान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्येव भवन्ति । तदेवमेतैः कषायजनिताध्यवसायस्थानैर्जन्यत्वात्कर्मणः स्थितिः कषायप्रत्ययसिद्धा, तेषामेव कषायाणां सम्बन्धि यद्दलिकमुदयप्राप्तं तत्र यदनुभागस्थानमुदेति तेन जीवस्याध्यवसायो जन्यते, तद्वशेन