________________
शतकनामा पञ्चमः कर्मग्रन्थः बध्यमानकर्मणामनुभागो निष्पद्यते । सर्वेष्वपि कषायकर्मस्कन्धेष्वसंख्येयलोकाकाशप्रदेशप्रमाणन्यनुभागस्थानानि गजनिः । ज्ञातायर"दिसमककन्येष्य पेलाव त्वामूनि भवन्ति, परं तावदिह कषाया एव कारणत्वेन विचारयितुं प्रक्रान्ताः । तत्र जघन्यान्यनुभागस्थानान्युत्कृष्टतश्चतुर: समयान् पावदुदपे समागच्छन्ति, मध्यमानि तु कानिचित् त्रिनपराणि चतुरोऽन्यानि पञ्चान्यानि षडपराणि सप्तान्यानि त्त्वष्टौ समयान् यावदुत्कृष्टत उदये समागच्छन्त्युत्कृष्टानुभागस्थानानि नूत्कृष्टतो द्वौ समयौ यावदुदये समागन्ति, जघन्यतस्तु सर्वांण्यपि समयस्थितीनि एव भवन्त्यत्तस्तजन्यो जघन्यमध्यमोत्कृष्टभेदभिन्नोउध्यवसायोऽप्येतावत्कालस्थितिक एव । कपायसद्भावे प्रमत्तादिषु स्थित्यनुभागबन्धौ भवतः, कथायाभावे तूपशान्तमोहादिषु न भवत इति ज्ञायते, एनयोः कषायाः प्रधानं कारणम् ||२५||२६||
अथ श्रेणिस्वरूपं विवक्षुः, सा च घनीकृतलोकस्वरूपप्ररूपणापूर्विकैव वक्तुं शक्यतेऽतो घनस्वरूपं बहूपयोगित्वात् प्रतरस्वरूपं चाह
चउदसरज्जू लोगो बुद्धिकओ होइ सत्तरन्नुमाणघणो । तद्दीहेगपएसा सेढी पयरो य तबागो ।।९७॥
चउ० चतुर्दशरज्जवो यस्य स, नथा रज्जुप्रमाणं तु स्वयंभूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावदवसेयम् । उच्छ्रयमानमिदमस्य-अधस्ताद्देशोनसप्तरज्जुविस्तरस्तिर्यग्लोकमध्ये एकरज्जुविस्तारो, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्ण उपरि लोकान्ते त्वेकरज्जुविस्तृतः, शेषस्थानेषु पुनः कोऽपि कियानस्य विस्तर इत्येवंरूपो लोको बुद्ध्या धनीकृत: सप्तरज्जुप्रमाणः स्यात् । तद्यथा →रज्जुविस्तीर्णापासनाड्या दक्षिणदिग्वबंधोलोकखण्डमधो देशोनरज्जुत्रयविस्तृतं क्रमेण हीयमानविस्तरं यावदुण' रज्ज्वसंख्येयभागविस्तरं सातिरेकं सप्तरज्जूच्छ्रयं गृहीत्वा बसनाडिकाया एवोत्तरदिग्भागे विपरीतं योज्यते, एवमुपरितनवर्तिखण्डद्वयमपि प्रत्येकं ब्रह्मलोकमध्ये द्विरज्जुविस्तरं उपर्यलोकसमीपेऽधो रत्नप्रभाक्षुल्लकातर - समीपे चाङ्गुलसहस्रभागविस्तरं देशोनसाधरज्जुत्रयोच्छितं दक्षिणपार्थादुत्तरपार्वे वैपरीत्येन स्थाप्यते, एवं च कृते उर्ध्वलोकार्द्ध द्वाभ्यामगुलसहस्रभागाभ्यामधिकरज्जुत्रयविष्कम्भं देशोनसप्तरज्जूच्छ्रितं बाहुल्यतस्तु ब्रह्मलोकमध्ये पश्चरज्जुबाहल्यमन्यवाऽनियतं जायते, इदं चोपरितनमर्धं गृहीत्वाऽधस्तनसंवर्तितलोकार्द्धस्योत्तरपार्श्वे स्थाप्यते, एवं च योजिते आधस्त्यखण्डोच्छ्रये यत्सप्तरज्जूनामधिकं तत्वण्डित्वोपरितनयोजितखण्डस्य बाहल्ये उर्ध्वायतं स्थाप्यते, एवं च सातिरेकाः पञ्चरज्जवः क्वचिद् बाहल्यं सिध्यति