________________
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः
तथाऽऽधस्त्यखण्डमधस्ताद् यथासम्भवं देशोनसप्तरज्जुबाहुल्यमत उपरितनखण्डबाहल्याद देशोनरज्जुद्वयमत्रातिरिच्यते इत्यस्मादूर्ध्वं गृहीत्वोपरितनखण्डबाहल्ये संयोज्यते, एवं बाहल्यतः सर्वमप्येतच्चतुरस्त्रीकृतनभःखण्डं किंयत्यपि प्रदेशे रज्ज्वसंख्येयभागाधिकाः षड् रज्जवः स्युः, व्यवहारतस्तु सर्वं सप्तरज्जुबाहल्यम्, आयामविष्कम्भाभ्यां प्रत्येकं देशोनस'नरज्जुप्रमाणं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता ज्ञेया । एवं बुद्धिकृतः सप्तरज्जुमानो घनः स्यात्, 'तद्दीगपएस' त्ति तस्य सप्तरज्जुमितस्य लोकस्य दैर्घ्यं यस्याः सा तद्दै एकैकप्रदेशा श्रेणिरुच्यते, तस्याः श्रेणेर्वर्गः प्रतरो भवति ||१७||
११५
प्रदेशबन्धः समाप्तः ||
अधुना चान्दसूचि उपशमश्रेणिक्षपकश्रेणी प्राह— अणदंसनपुंसित्थी वेयछक्वं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उसमे ॥ ९८ ॥
+
अग॰ इहोपशमश्रेणिकृदप्रमत्तयतिरेव अन्ये त्वविरतसम्यग्दृष्टिदेशविर भ्रमत्ताप्रमत्तयतीनामन्यतभः । अणन्त्याकारयन्ति नरकायुरित्यणाः अथ सूचनादनन्तानुबन्धिनस्तत्रादी अन्तर्मुहूर्तेन युगपत् क्रोधादीनामुपशमः, दर्शनं दर्शस्तत् त्रिधा मिथ्यात्वाद्यन्तर्मुहूर्तेन युगपत्, एवं सर्वत्र युगपदुपशमकालोऽन्तर्मुहूर्त, नर आरम्भको नपुंसमन्तर्मुहूर्तेन, अथ स्त्री तदादौ नपुंस्त्वं ततो नृवेदं ननः स्त्रीवेदं, नपुंस्त्वादौ स्त्रीवेदं ततो नृवेदं षष्ठे स्थाने स्वीयं ततो द्वौ द्वौ द्वितीयतृतीय क्रोधौ सदृशौ । ततस्तुयं क्रोधे क्रोधत्वात् सादृश्यं तुर्गभेकाकिनमेवान्तर्मुहूर्तेन, एवं मानादीन्, तुर्यलोभं शमयन् त्रिधा कृत्वा द्वौ भागौ युगपदुपशमय्य तृतीयं संख्त्र्येयखण्डानि कृत्वा पृथक पृथक् कालभेदेन शमयति, तत एषां यमन्त्यं खण्डं तदसंख्यखण्डान कृत्वा समये समये एकैकं शमयति, दर्शनसप्तके शान्तेऽपूर्वकरणोऽनिवृत्तिवादरो बोच्यते । तन ऊर्ध्वमनिवृत्तिबादरो यावत्संख्येयान्तिमखण्डम्, चरमस्य संख्येयखण्डस्यासंख्येयखण्डानि शमयन् सूक्ष्मसंपरायः । ननूपशमश्रेणिकोऽप्रमत्तसंयतः स च सप्तकशमात्, अन्यथा तेषामुदये न सम्यक्त्वाद्याप्तिः । अधुना तेषां किं शमोक्तिः ? आह- पूर्वं तेषां क्षयोपशम उक्तोऽधुना नूपदामः ।
१- कालोऽन्तर्मुहूर्त्त वाच्यः, नवोऽनुदीर्णमपि नपुंसकवेदम् । यदि पुरुषः प्रारम्भकः ततः प्रथमं नपुंस्त्वं तत स्त्रीवेदं नतो हास्यादिषद्धं ततः पुरुषवेदम्, अध खी तदादी नपुंस्त्वं ततो नृवेदं ततः षट्कं ततःखीत्वं नपुंसकत्वादी खीवेद्र ततो नृवेदं [ततः घट्रकं तनः ] षट्स्थाने स्वीयम् - प० ।