SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ गुणारत्नाविरचित्त-अवर्णोपेतः सूक्ष्मोद्धारसागरोपमम्, आभ्यां द्वीपाः समुद्राश्च मीयन्ते । तथा वर्षशते वर्षशतेऽतिक्रान्ते पूर्वपल्यादेकैकवालाग्राऽपहारेण संख्येयवर्षकोटीमानः कालो बादरमद्धापल्योपमम्, तद्दशकोटाकोटीभिर्बादरमद्धासागरोपमं तथैव वर्षशते वर्षशते एकैकवालाग्राऽसंख्येयतमखण्डापहारेणाऽसंख्येयवर्षकोटीमानः कालः । सूक्ष्ममद्धापल्योपमं तद्दशकोटाकोटीभिः सूक्ष्ममद्धासागरोपमम्, आभ्यां सुरनरनारकतिरश्चां कर्मस्थितिः कापस्थितिवस्थितिश्च मीयन्ते । तथा प्रागुक्तपल्याद्वालाग्रस्पृष्टनभप्रदेशानां प्रतिसमयमेकैकापहारेणाऽसंख्येयोत्सर्पिण्यवसर्पिणीमानः कालो बादरं क्षेत्रपल्योपमं तद्दशकोदाकोटीभिर्बादरं क्षेत्रसागरोपमम् । तथाऽसंख्यातखण्डीकृतबालाग्रैः स्पृष्टानामस्पृष्टानां च नभःप्रदेशानां प्रतिसमयमेकैकापहारेण बादरादसंख्येयगुणकालमानं सूक्ष्म क्षेत्रपल्योपमम् । तद्दशकोटाकोटीभिः सूक्ष्म क्षेत्रसागरोपमम् । आभ्यां दृष्टिवादे प्रयोजनं द्रव्यप्रमाणचिन्तायां प्रायः ॥८५॥ दव्वे खित्ते काले भावे चउह दुह बायरो सुहुमो । होइ अणंतुस्सप्पिणिपरिमाणो पुग्गलपरट्टो ॥८६॥ दव्वे० द्रव्य-क्षेत्र-काल-भाव-भेदाच्चतुर्धा पुद्गलपरावर्त्त, एकैको द्विधा-बादरः सूक्ष्मश्च । [सूक्ष्मो]ऽनंतोत्सर्पिणीप्रमाणो भवति ॥८६|| द्रव्यपुद्गलपरावर्त्तमाहउरलाइसत्तगेणं एगजिओ मुयइ फुसिय सवअणू। जत्तियकालि स थूलो दवे सुहुमो सगन्नयरा ॥८७॥ उर० औदारिकादिसप्तकेनाहारकस्य कादाचित्कतया तर्जनं 'ओरालबिउव्याहार' [आ० नि० गा० ३९] इत्यादिगाथोक्तौदारिकादियोग्यवर्गणासप्तकभावेन मतान्तरेणौदारिकाद्यङ्गचतुष्कभावेन वा लोकवतिसर्वपुद्गलस्पर्शनमोचनेन बादरः, सप्तानां चतुर्णा वा मध्यादेकेन केनचित् सर्वपुद्गल. र्पशनमोचने शेषैः स्पृष्टानामगणनेन सूक्ष्मः पुद्गलपरावर्त्तः ।।८७|| लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य । जहतहकममरणेणं पुट्ठा खित्ताइ थूलियरा ॥८८॥ ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy