SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः (१०८ आसु वर्तमाना जन्तव एतद्गुणादेव यधोत्तरमसंख्येयगुणनिर्जरावन्तो मन्तव्याः, एतदेवाहगुणसेढी दलरथणाणुसमयमुदयादसंखणगुणाए । एयगुणा पुण कमसो असंखगुणनिज्जरा जीवा ॥८३॥ 'गुण' स्पष्टा ॥८३|| अथ गुणस्थानानां जघन्योत्कृष्टान्तरमाह - पलियासंखसमुहू सासणइयरगुण अंतरं हस्सं । गुरु मिच्छि बे छसट्टी इयरगुणे पुग्गलद्धंतो ॥८४॥ पलि० सास्वादनस्य तद्भावात् प्रनिपतितस्य कालान्तरेण तद्भावं प्रतिपित्सोरन्तरं जघन्यतोऽपि पल्याऽसंख्येयभागमात्र, ततो हीनकालेन तद्भावाऽप्रतिपत्तेरितरगुणानां तु जघन्यान्तरमन्तर्मुहूर्तम्, तद्भावं गत्वा प्रतिपतितस्य कदाचित्पुनरन्तर्मुहूर्तेन तद्भावप्रतिपत्तेः । गुर्वन्तरं तु मिथ्यात्वस्य 'दो वारे विजयाइसु [ ] इत्यादिनीत्या वारद्वयं षट्षष्टिपूरणेन सागरोपमषट्षष्टि । इतरगुणानां पुनरपार्द्धपुद्गलपरावतः ।।८४|| उद्धार अद्ध खित्तं पलिय तिहा समयवाससयसमए । केसवहारो दीवोदहिआउतसाइपरिमाणं ॥५॥ उद्धा० उद्धारपल्योपममद्धापल्योपमं क्षेत्रपल्योपमं चेति पल्योपमं त्रिधा । तत्रायामविष्कम्भाभ्यामवगाहेन चोत्सेधाङ्गलनिष्पन्नैकयोजनप्रमाणः, परिरयेण तु साधिकत्रिगुणैकयोजनमानः पल्य एक-द्वि-त्रियावत्सप्ताहःप्ररूढवालाग्रेर्निबिडं भृतः, ततः समये समये एकैकवालाग्रापहारेण पावता कालेन स निर्लेपः स्यात् तावान् कालः संख्येयसमयमानो बादरमुद्धारपल्योपमम् । तद् दशकोटीकोट्या बादरमुद्धारसागरोपमम् । एकैकं वालाग्रं असंख्येयखण्डानि कृत्वा पूर्ववत् पल्यो भ्रियते । तानि च खण्डानि द्रव्यतोऽत्यन्तशुद्धलोचनच्छद्मस्थो यदतीच सूक्ष्म पुद्गलद्रव्यं चक्षुषा पश्यति तदसंख्येयभागमात्राणि, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवागहते ततोऽसंख्यगुणानि बादरपर्याप्तपृथिवीकायिकशरीरतुल्यानीति वृद्धाः, ततः प्रतिसमयमेकैकखण्डापहारेणासंख्येयवर्षकोटीप्रमाणः कालः सूक्ष्मोद्धारपल्योपमं तद्दशकोटाकोटीभिः
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy