SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १० गुणरत्लसूरिविरचित्त-अवचूण्युपेतः स्फुटत्वं न स्यात् । तथा शेषकर्मणामायुष्कादीनां भागस्य हीनत्वमाधिक्यं वा विज्ञेयं स्थितिविशेषेण हेतुभूतेन, यस्य नामगोत्रादेरायुष्काद्यपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान, यस्य त्वसौ हीनस्तार को पि हीन इति हटाम् । अल्लाकृतीनां सः स्वयमेवोच्यते, तत्र ज्ञानावरणस्य पश्चोत्तरप्रकृतय, एका सर्वघातिनी शेषाश्चतस्रो देशघातिन्यस्तत्र ज्ञानावरणभागे यद् द्रव्यमागच्छति तन्मध्ये सर्वघातिना तीब्ररसेन युक्तं यद्रव्यं तदल्पं शेषद्रव्यस्यानन्तभागवत्यै॒व, तच्च केवलज्ञानावरणनयैव परिणमति शेषं तु देशघातिद्रव्यं चतुर्भिगिर्भूत्वा शेषप्रकृतिचतुष्टयरूपतया परिणमति । एवमपरासामपि वाच्यम्, याबदेकस्मिन् काले बध्यमानाः प्रकृतयो भवन्ति तावद्भिर्भागैर्नामभागलब्धं द्रव्यं परिणमति । इह च । यस्या उत्तरप्रकृतेर्बन्धो व्यवच्छिद्यते तद् भागद्रव्यं यावत्तत्समानजातीया एकाकिनी प्रकृतिबंध्यते तावत्तस्या एवं तद्भवति, यदा च समानजातीया अपि सर्वा व्यवच्छिद्यन्तेऽथवा मिथ्यात्वादेरिवाऽपरा समानजातीया प्रकृतिर्नास्ति तदा तद्रव्यं सर्वमपि स्वमूलप्रकृत्यन्तर्गतानां विजातीयप्रकृतीनामपि भवति । यदा ता अपि विजातीया व्यवच्छिद्यन्त नदा सर्वमप्यन्यस्या मूलप्रकृतेर्भवति । अत्र निदर्शनम् →यथा स्त्यानिित्रकबन्धे व्यवच्छिन्ने तद्भागद्रव्यं समानजातीयत्वान्निद्राप्रचलयोर्भवति तयोरपि बन्धव्यवच्छेदे स्वमूलप्रकृत्यन्तर्गतानां चक्षुर्दर्शनावरणादीनां विजातीयानामपि भवति, तेषामपि बन्धव्यवच्छेदे उपशान्ताद्यवस्थायां सर्वं वेदनीयस्यैव भवति । मिथ्यात्वादेस्तु समानजातीया प्रकृति स्त्यतस्तद्वन्धव्यवच्छेदे तद्भागद्रव्यं । विजातीयप्रकृतीनामेव क्रोधादीनां स्यादेवमन्यत्रापि स्वधियाऽभ्यूह्यम् ।।८०।।८१|| सम्मदरसबविरईउ अणविसंजोयदंसखवगे य। मोहसमसंतखबगे खीणसजोगियर गुणसेढी ॥८२॥ सम्म० सम्यक्त्वलाभे प्रथमा वेद्यमानमिथ्यात्वादिपुद्गलक्षपणाय यथोत्तरवृद्ध्या तद्दलिकर- : चनरूपान्तर्मुहूर्त्तमाना गुणश्रेणिः, 'दर'त्ति देशविरतिलाभकाले द्वितीया, एवं सर्वविरत्यादिषु वाच्यम् । केवलं 'अणविसंजोय'त्ति सत्तागतानन्तानुबन्धिविसंयोजने चतुर्थी, दर्शनत्रिकक्षपणे पञ्चमी, मोहं शमयतोऽनिवृत्तिबादरसूक्ष्माद्धायां षष्ठी, उपशान्ते उपशान्तमोहस्य सप्तमी एवं क्षएकक्षीणयोरपि श्रेणीद्वयम्, सयोगिनी दशमी । अयोगिन एकादशी । आसां चायं विशषः→सम्यक्त्वलाभकाले मन्दशुद्धितया दीर्घान्तर्मुहूर्त्तवेद्यामल्पतरप्रदेशाग्रां गुणश्रेणिं रचयति, उत्तरोत्तरां तु यथोत्तरवृद्धशुद्धितया ह्रस्वहस्वतरान्तर्मुहृतवेद्यां बहुबहुतरादिप्रदेशानां रचयति ॥८२।।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy