________________
"
C
शतकनामा पञ्चमः कर्मग्रन्थः
अंतिमचउफासदुगंधपंचवन्नरसकम्मखंधदलं । सब्वजियणंतगुणरसमणुजुत्तमणतयपएसं ॥७८॥
अंनि० अन्तिमाश्चत्वारः स्पर्शाः शीतोष्णरुक्षस्निग्धरूपा यस्य कर्मदलिकस्य तत्तधाऽयमाशयः→एषां चतुःस्पर्शानां मध्यात्कश्चिदणुः स्निग्धोष्णाऽविरुद्धस्पर्शद्वयोपेतोऽन्यः स्निग्धशीतोऽपरो रूक्षोष्णोऽन्यस्तु रूक्षशीतः । बृहच्छतकटीकायांमृदुलधुरूपं स्पर्शद्वयमवस्थितम् । शेषौ च स्निग्धोष्णौ स्निग्धशीतौ वा रूक्षोष्णौ रूक्षशीतौ वा द्वावविरुद्धस्पर्शी भवत इति चतुःस्पर्शः । अत्र चैवंविधकर्मस्कन्धदलिकभणनेन औदारिकवैक्रियाहारकयोग्याः स्कन्धा अष्टस्पर्शा एव । शेषास्तु तैजसादिस्कन्धाश्चतुःस्पर्शा इति मन्तव्यम् ॥७८||
एगपएसोगाढं नियसब्बपएसओ गहेइ जिओ। थेवो आउ तदंसो नामे गोए समो अहिओ ॥७९॥
एग० एकप्रदेशावगाढं गलैट नीवस्यागप्रदेशातन गहलगाटं तदेव जीवो गृह्णाति कर्मदलिकं, न पुनरन्यत् नत्रानीय गृह्णातीत्यर्थः, तच्च सर्वैरप्यात्मीयप्रदेशैर्गृह्णाति, निबिडसुवर्णादिशृङ्खलावत्, परस्परसम्बद्धत्वादेकस्मिन् प्रदेशे चेप्टमाने सर्वेषामपि चेष्टनात् । गृहीतकर्मदलिकस्याल्पमेव भागमायुषि क्षिपति, शेषकर्मस्थित्यपेक्षया तस्यैवाल्पस्थितिकत्वात् । नाम्नि गोत्रे च ततोऽधिकः, परस्परं तु समः ||७||
विग्यावरणे मोहे सच्चोवरि वेयणीये जेणप्पे । तस्स फुडत्तं न हबइ ठिईबिसेसेण सेसाणं ॥८०॥ नियजाइलद्धदलियाणंतंसो होइ सव्वघाईणं । बझंतीण विभज्जइ सेसं सेसाण पइसमयं ॥८१॥
विग्घा० निय० अन्तराय-ज्ञानवरण-दर्शनावरणरूपतया यो भागः परिणमति स्वस्वस्थाने त्रयाणामपि तुल्यो, विशेषाधिकश्च नामगोत्रापेक्षया । तथा मोहनीयेऽपि कर्मणि यो द्रव्यभाग आभजत्ति सोऽपि विशेषाधिकोऽनन्तरोक्तकर्मत्रयभागापेक्षया । तथा वेदनीयेऽपि कर्मणि यो भाग आभजति सर्वेषामपि शेषकर्मभागानामुपरि वर्तते, मोहनीयभागापेक्षयाऽपि विशेषाधिक इत्यर्थः, अन्यथा तस्य सुखदुःखवेद्यतया