SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्ण्यपेतः भव्यानामध्रुव इति जघन्यः सादिरध्रुवोऽजघन्यस्तु साद्यादिश्वतुर्धा । 'सेसम्म दुहे' ति पदमायुः कर्मापे - क्षयापि व्याख्येयं, यथा शेषे भणितसप्तकर्मोद्धरिते आयुषि जघन्याजधन्योत्कृष्टानुत्कृष्टानुभागबन्धलक्षणं भङ्गचतुष्कमपि साद्यध्रुबरूपे विकल्पद्वये वर्त्तते । अनुभूयमानभवत्रिभागादौ नियतकाल एवायुषश्चतुर्विधस्याप्यनुभागबन्धस्य बध्यमानत्वात्सादित्वम् । अन्तर्मुहूर्ताच्च परतस्तदुपरमादध्रुवत्वम् ॥ इत्यादिवा १० [ अथ प्रदेशबन्ध : - ] इगदुगणुगाई जा अभवणंतगुणियाणू । खंधा उरलोचियवग्गणा उ तह अगहणंतरिया ॥ ७५ ॥ एमेव निउब्बाहारतेयभासाणुपाणमणकम्मे । सुहुमा कमावगाहो ऊणूणंगुलअसंखंसो ॥७६॥ इग० एमे० 'इगदुगणुगाई' त्ति एकद्विकाणुकादियावदभव्येभ्योऽनन्तगुणाणून् स्कन्धानन्तान् सर्वायोग्यतयातिक्रम्य तत एकाणुकादिवृद्ध्यानन्ताणुवृद्धिं यावदौदारिकोचितवर्गणा अनन्ता जघन्याद्युत्कृष्टा तास्ततोऽप्येकोत्तरवृद्ध्याऽनन्ताणुवृद्धिं यावदनन्तास्तस्या बह्वणुनिष्पन्नतया सूक्ष्मत्वेनोत्तरस्यास्तु अल्पाणुमयत्वेन स्थूलतयोभयाग्रहणयोग्यवर्गणास्ततोऽप्येकोत्तरवृद्धयाऽनन्ता वैक्रिययोग्या एवमेकोत्तर - द्ध्यानन्ताणुमयाऽग्रह्णवर्गणान्तरिता आहारकादियोग्यवर्गणा अपि वाच्याः । ताश्च यथावृद्धया क्रमेण सूक्ष्मतन्तुव्यूनपटवत् सूक्ष्मा, अत एवाल्पाऽल्पतराल्पतमक्षेत्रावगाहितया तासामूनोनतरोनतमेऽङ्गुलासंख्येयभागे अवगाहः ||७५६॥ ७६ ॥ इक्किकहिया सिद्धाणंतंसा अंतरेसु अग्गहणा । सव्वत्थ जहन्नुचिया नियणंतसाहिया जिट्टा ॥७७॥ इकि० एकोत्तरवृद्धया सिद्धानन्तभागमिता अनन्तप्रमाणा एकैकस्या अन्तरेष्वग्रहणवर्गणाः स्युः । सर्वत्र च स्वस्वजधन्ययोग्यवर्गणायाः सकाशादुत्कृष्टयोग्यवर्गणा निजनिजानन्तभागेनाधिका मन्तव्याः ॥७७॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy