SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः पञ्चकरूपचतुर्दशप्रकृतीनां क्षपकसूक्ष्मश्वरमसमये जघन्यरसं बध्नाति ततोऽन्यः सर्वोऽप्यजघन्यरसं, ततश्वोपशान्तस्तदबन्धको भूत्वा प्रतिपत्य तदजघन्यं बध्नतोऽजघन्यरसबन्धः सादिस्तत्स्थानमप्राप्तानामनादिर भव्यानां ध्रुवो भव्यानामध्रुवः संज्वलनचतुष्कस्य तु क्षपकानिवृत्तिबादरो निद्राप्रचलाऽप्रशस्तवर्णादिचगुण्कोनचातभय जुगुप्तास्त्रकृतीनां क्षपकापूर्वकः प्रत्याख्यानावरणचतुष्कस्य देशविरत: संयमाभिमुखो, प्रत्याख्यानावरणचतुष्कस्य त्वविरतसम्पम्टष्टिः क्षायिकसम्यक्त्वं संयमं तु युगपत्प्रतिपित्सुः, स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धिलक्षणानामष्टप्रकृतीनां मिथ्यादृष्टिः सम्यक्त्वं संयमं च युगपत्प्रतिपित्सु - रतिविशुद्धो मिथ्यात्ववेदनचरमसमये जघन्यरसं बध्नाति । ततोऽन्यत्र सर्वत्राऽप्यजघन्यम् । ततश्च यथास्वमुत्तरोत्तरगुणप्राप्तौ तत्तदबन्धको भूत्वा प्रतिपत्य पुनरजघन्यं बध्नतां साद्यादयश्वत्वारोऽपि भङ्गाः स्युः ॥७४ || १०१ 'सेसम्मिदुह' तिशेषत्रिकेसादिरध्रुवश्चेति, सादित्वंजघन्यस्याजघन्यानन्तरभाविनयाऽजघन्यस्य चाध्रुवत्वमित्यादि भावना सर्वविकल्पेषु यथास्वयमभ्यूया | मोहवर्जघातिकर्मत्रयस्य क्षपकसूक्ष्मश्चरमसमये मोहस्य तु क्षपकानिवृत्तिबादरश्वरमसमये जघन्यरसं निर्वर्तयति, ततोऽन्यत्र सर्वत्राऽप्यजघन्यरसम् तत उपशान्त: सूक्ष्मश्च प्रकृतकर्मसम्बन्धिनोऽजघन्यरसस्याऽबन्धको भूत्वा प्रतिपत्य पुनस्तमेव बध्नतोऽजघन्यरसस्य सादित्वम्, अनाद्यादिभावना प्राग्वत् । 'सेसम्मि दुह 'ति शेषत्रिके साद्यध्रुवौ द्वौ भङ्गौ, तत्र जघन्यरसस्य क्षपकाऽनिवृत्तिबादरसूक्ष्माभ्यां निर्वर्त्यमानत्वात्सादित्वम् क्षीणाद्यवस्थायां तु न भविष्य - तीत्यध्रुवत्वम्, तेषामुत्कृष्टरसं तु मिथ्यादृष्टिः सर्वसंक्लिष्टः संज्ञी पर्याप्तः पञ्चेन्द्रिय एवैकं द्वौ वा समय बध्नाति न परतः, स चानुत्कृष्टादवतीर्य बध्यतेऽतः सादिः, पुनरप्यनुत्कृष्टबन्धं गतस्योत्कृष्टोऽध्रुवोऽनुत्कृष्टः सादिः पुनरपि जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतोऽनन्तानन्तोत्सर्पिण्यवसर्पिणीभिरुत्कृष्टसंक्लेशेन बध्नत उत्कृ ष्टरसमनुत्कृष्टोऽध्रुवः स्यात् । एवं ते त्रयोऽपि सादयोऽध्रुवाश्च भवन्ति । तथा गोत्रे द्विविधोऽप्ययमजघन्योऽनुत्कृष्टनुभागबन्धः साद्यादिश्चतुर्द्धा । तत्र यथा वैद्यनाम्नोरुत्कृष्टो रसबन्धः सादिरध्रुक्थानुत्कृष्टरसबन्धस्तु साद्यादिचतुर्विकल्पः प्राग्भावितः तथा गोत्रेऽप्येतौ भावनीयौ । जघन्याजघन्यभावना त्वेवं कश्चित् सप्तमपृथिवीनारकः सम्यक्त्वाभिमुखो मिथ्यात्वपुद्गलवेदनचरमसमयेऽन्तरकरणादौ नीचैर्गोत्रं जघन्यरसं बध्नाति स च प्रथमतया बध्यमानत्वात् सादिः, सम्यक्त्वे तु तद्वन्धं न विधास्यतीत्यध्रुवः । उचैत्रं तु तदानीमजघन्यरसं रचयिष्यतीत्यजघन्यः सादिः तच्च स्थानमप्राप्तपूर्वाणामनादिः, अभव्यानां ध्रुवो, 1 7
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy