________________
१०:
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः
-
अथ अस्मिन् साद्यादिप्ररूपणामाह - चडतेयवन्न वेयणियनामणुकोसु सेसधुवबंधी । घाणं अजहन्नो गोए दुविहो इमो चहा ॥ ७४ ॥
मेसम्म दुहा
7
चउ० तैजसकार्मणागुरुलघुनिर्माणप्रशस्तवर्ण गन्ध-रस स्पर्शलक्षणानामष्टप्रकृतीनामनुस्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि ज्ञेयः । तथाहि एतासानुत्कृष्टमनुभागबन्धं क्षपकाऽपूर्वकरणो देवगतिप्रायोग्याणां त्रिंशत्प्रकृतीनां बन्धव्यवच्छेदसमये करोति, एतस्मात्पुनरन्यत्रोपशमश्रेणावप्यनुत्कृष्टोऽनुभागबन्धो लभ्यते स चोपशान्तमोहाद्यवस्थायां सर्वथा न स्यादिति ततः पतितैर्बध्यमानः सादिरित्यादि । सातयश:कीर्त्तिनाम्नोः सर्वोत्कृष्टो रसः क्षपक- सूक्ष्मसम्परायचरमसमये प्राप्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावप्यनुत्कृष्टस्ततश्चोपशान्तमोहावस्थायां तस्यापि बन्धो न स्यात् पुनरपि च ततः प्रतिपत्य तमेव बघ्नतोऽनुत्कृष्टाऽनुभागः सादिरेवमन्येऽपि भगा द्रष्टव्याः । शेषध्रुवबन्धिनीनामप्रशस्तवर्णचतुष्कक्षेपात् ४३ संख्यानां घातिकर्मचतुष्कस्य चाऽजघन्योऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि स्यात् । तथा गोत्रे 'इमो' अयमनुभागबन्धो 'दुविहो' अजघन्या (यो ) ऽनुत्कृष्टरूपो साद्यादिश्चतुर्धा 'सेसम्मि दुहन्ति [ गाथा ७५] उत्तरगाथाद्यबयबाच्छेषे- उत्कृष्टजघन्याऽजघन्यानुभागबन्धत्रिके 'दुह' ति सादिरध्रुवश्चेति । तत्र यदा तासामुत्कृष्टानुभागबन्धमपूर्वकरणो विधत्ते तदाऽसौ तत्प्रथमत्वेन सादिः, समयानन्तरमवश्यमभावादध्रुवः, जघन्यानुभागं त्वेतासां मिथ्यादृष्टिः संज्ञी पर्याप्तो बध्नाति, पुनर्जघन्यतः समयादुत्कर्षतः समयं यादवश्यं स एवाजघन्यं बध्नाति, पुनः कालान्तरे स एवोत्कृष्टम्, एवं जघन्याजघन्येषु परावर्त्तमानजन्तूनामुभयत्र साद्यध्रुवता । वेद्ये सातस्य नाम्नि च यश: कीर्ते: 'सेम्मि दुह' त्ति पदस्य सम्बन्धाच्छ्रेषे उत्कृष्टजघन्यावयन्यानुभागलक्षणे द्विधा सादिरध्रुवः । तत्र क्षपकसूक्ष्मोऽतिविशुद्धत्वात् सातयशसोरुत्कृष्टरसं बध्नाति स च तत्प्रथमं बध्यमानतया सादिः क्षीणामोहाद्यवस्थायां नियमात् तद्बन्धो न भविष्यतीत्यध्रुवः जघन्यानुभागं त्वनयोः सम्यग्दृष्टिर्मिथ्यादृष्टिर्वा मध्यमपरिणामो बध्नाति स चाजधन्यादवतीर्य बध्यत इति सादिः, पुनर्जघन्यतः समयादुत्कर्षतः समयचतुष्टयादजघन्यानुभागं बघ्नतो जघन्योऽध्रुवः, अजघन्यस्तु सादिरिति परावृत्त्या द्वयोः साद्यध्रुवना । शेषध्रुवबन्धि४३ प्रकृतीनां मध्ये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तराय१-० नाम्नो वेदनीयनाभमूलकर्मणोः स० पा० ।
-