SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः कत्वात्, अतिविशुद्धानां पुनरिदमुल्लङ्ध्य पञ्चेन्द्रियजातिवसनाम्नोर्बन्धकत्वादिति मध्यमग्रहणम् । 'आसुहमायव'त्ति आसौधर्मेशानदेवानामतिसंक्लिष्टानामातपस्य जघन्यरसबन्धः । सम्यग्दृष्टिमिथ्यात्वी वा सानादिसेतराष्टप्रकृतीनां जयन्यरसबन्धकः, अत्र च संक्लिष्टस्तु सातादीनां, विशुद्धस्त्वसातादीनामिनि ।।७२|| तसवन्नतेयचउमणुखगइद्गपणिंदिसासपरघुच्चं । संघयणागिइनपुत्थीसुभगियरति मिच्छ चउगइगा ॥७३॥ तस० 'तसबायरपज्जन पत्तेज' ४ [क वि०मा०-२६] शुभवर्णादि ४, 'तेअकम्मागुरुलहनिमिणं' ४ [गाथा-२], नरद्विकशुभाशुभविहायोगति २, संहनन ६, आकृति ६, सुभगत्रिक-दुर्भगत्रिक ३ सा(आ)दि ४० प्रकृतीनां मिथ्यादृष्टपश्चतुर्गतिका अपि परावर्त्तमानमध्यमपरिणामा मन्दरसबन्धका इति सामान्योक्तावष्ययं विशेषः-→मनुष्यद्विक-संस्थानषट्क-संहननषट्क-खगतिद्विक-सुभग-दुर्भगदुःस्वर-सुस्वरादेयानादेयोच्चैर्गोवलक्षणास्त्रयोविंशतिप्रकृती: परावृत्त्य परावृत्त्य बध्नन्तश्चतुर्गतिका अपि मिथ्यादृष्टयो मध्यमपरिणामा जघन्यरसा; कुर्वन्ति, सम्यग्दृष्टीनां ह्येतासां परावृत्ति स्ति, तथाहि→तिर्यग्म नुष्यास्तावत्सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि, संस्थानेषु तु समचतुरस्रमेव, संहननं तु किश्चिदपि न बध्नन्ति, शुभविहायोगत्यादीनेव बघ्नन्ति, न प्रतिपक्षान्, देवनारका अपि सम्यग्दृष्टयो नरद्रिकमेव, संस्थानेषु तु समचतुरस्रमेव, संहननेषु वज्रर्षभनाराचमेव, विहायोगत्यादिकाः सुभा एव, न प्रतिपक्षभूता बध्नन्ति । तथा पञ्चेन्द्रियजातितैजसकार्मणप्रशस्तवर्णादिचतुष्कागुरुलघुपराधातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकनिर्माणरूपपञ्चदशप्रकृतीनां चतुर्गत्तिका अपि जीवा मिथ्याश: सर्वोत्कृष्टसंक्लेशा जघन्यानुभागं कुर्वन्ति । तत्र तिर्यमनुष्या: सर्वोत्कृष्टसंक्लेशे वर्तमाना नरकगतिसहचरिता एता बध्नन्तो जघन्यरसा: कुर्वन्ति । नारका देवाश्वेशानादुपरिवर्तिनः सनत्कुमारादयः सर्वसंक्लिष्टाः पश्चेन्द्रियतिर्पक्प्रायोग्या एता बघ्नन्तो मन्दरसा: कुर्वन्ति, ईशानान्तास्तु देवा: सर्वसंक्लिष्टाः पञ्चेन्द्रियजातित्रसा: शेषास्त्रयोदशप्रकृतीरेकेन्द्रियप्रायोग्यां बध्नन्तो जघन्यरसाः कुर्वन्ति, पञ्चेन्द्रियजातिवसनाम्नी तु विशुद्धा अमी बध्नन्ति इति जघन्यरसो न लभ्यते इति तद्वर्जनम् । तथा स्त्रीनपुंसकवेदलक्षणे द्वे प्रकृती चतुर्गतिका अपि मिथ्यादृष्टयो जीवा अशुभत्वादनयोस्तत्प्रायोग्यविशुद्धया जघन्यरसे बध्नन्ति । अतिविशुद्धः पुरुषवेदबन्धक: स्यात् ॥७३॥ १.न्ति तत्र तिर्यम्मनुष्या: सर्वोत्कृष्टसंक्लेशे तत्र-हे० ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy