SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ गुणरत्नप्रिविरचित-अवचूण्युपेतः अपमाइ हारगदुगं दुनिइअसुबन्नहासरइकुच्छा। भयमुवधायमपुज्वो अनियट्टी पुरिससंजलणे ।।७०॥ अप० अप्रमत्तः प्रमत्ताभिमुख आहारकद्विकमस्य शुभत्वेन तन्मन्दरसस्य संक्लेशबध्यत्वात्, अस्य प्रमत्ताभिमुखस्यैवासी संक्लेशो लभ्यते । निद्राद्विकादीनामशुभत्वात् तज्जघन्यरसस्यातिविशुद्धिजन्यत्वात्, क्षपकाऽपूर्वस्यैव तद्विशुद्धिः । पुरुषवेदसञ्ज्वलनचतुष्करूपस्य प्रकृतिपञ्चकस्य स्वस्वबन्धव्यवच्छेदसमये क्षपकोऽनिवृत्तिबादरो मन्दरसं बध्नाति ।।७०।। विग्धावरणे सुहुमो मणुतिरिया सुहुमविगलतिगआऊ । बेउन्विछक्कममरा निरया उज्जोयउरलदुगं ॥७१॥ बिग्घाः विघ्नादिचतुर्दशप्रकृतीनां तद्भन्धकेषु क्षपकसूक्ष्मस्यैव जघन्यरसबन्धयोग्यविशुद्धिकत्वम् । विकलत्रिकादिषोडशप्रकृतीनां तिर्यग्नरा एव जघन्यरसबन्धकाः, तिर्यग्नरायुर्वर्जशेष१४प्रकृतीनां देवनारका भवप्रत्ययाद् बन्धका न भवन्ति, तिर्यग्नरायुषी अपि जघन्यस्थितिके एव जघन्यरसे बध्येते, जघन्यस्थितिकतिर्यग्नरेषु देवनारका नोत्पद्यन्त एवेति तिर्यग्नरा एव इत्युक्तम् । औदारिकद्रिकमुद्योतं च शुभप्रकृतित्वेन संक्लेवोनैव जघन्यरसं बध्यते, तद्योग्यसंक्लेशो देवनारकाणामेव, तिर्यग्नराणां तु तावति संक्लेशे वर्तमानानां नरकगतियोग्यबन्धकत्वात् । ॥१॥ तिरिदुगनिअं तमतमा जिणमविरय निरय विणिगथावरयं । आसुहुमायव सम्मो व सायथिरसुभजसा सिअरा ॥७२॥ तिरि० तिर्यद्विकम्, नीचैर्गोत्रं चौपशमिकसम्यक्त्वा[भिमुखा] मिथ्यात्ववेदनचरमसमये वर्तमाना जघन्यरसं बध्नन्ति, तदैव तेषां तद्वन्धयोग्यत्वात्, अन्यदा त्वयं तावत्या विशुद्धयोच्दै!वनरद्विकाद्यपि बघ्नीयात्, अयं चाल्पेऽपि मिथ्यात्वे तिर्यग्गतिप्रायोम्पस्यैव बन्धक इति । अविरतो नरकबद्धायुस्तत्र च जिगमिषु: सम्यक्त्ववभनाभिमुखस्तीर्थ मन्दरसं बध्नाति, नगन्धकेषु तस्यैवातिसंक्लिष्टत्वात् । नारकान् विना गतित्रयवर्तिन एकेन्द्रियजातिस्थावरनानोर्मन्दरसबन्धका:, नारकाणामेकेन्द्रियादावनुत्पत्ते:, शेषगतित्रयवर्तिनः परावर्त्तमानमध्यमपरिणामास्तस्य तथाविधस्य बन्धकाः, अतिसंक्लिष्टानां तदुत्कृष्टानुभागबन्ध१.०संक्लेशे वर्तमानानां तिगतियोग्पबन्धकल्लात-पा० ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy