SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः धसंक्लेशाभावात् । निर्यग्नरायुषी तु शुभत्वाद् विशुद्धच्या देवनारकयोरेतदायुयबन्ध(धा)योग्यत्वात्, केवलं तेऽसंख्येयवर्षायु:सम्बन्धिनी एक तीव्ररसे स्याताम्, देवनारकाणां युगलिषूत्पादाभावात् । तिर्यद्विक सेवात च सुरनरया: संक्लेशेन । सामान्योक्तावपि सेवार्तं सनत्कुमारादय एव देवास्तथाविधं बध्नन्ति, अक्तिनानां संक्लिष्टानामेकेन्द्रियष्वेवोत्पादात् तत्र च संवाताऽसम्भवः ।।६६॥ विरच्चिसुराहारदुगं सुखगइवन्नचउतेयजिणसायं । समचउपरघातसदसपणिदिसासुच्च खबगाउ ॥६७॥ विउ० वर्णचतुष्कं शुभं, तैजसचतुष्कं 'तेअकम्माऽगुरुलहुनिमिण' [गाथा-२] इत्यादित्रिंशत्प्रकृतीनां शुभत्वेन क्षपकाऽपूर्वसूक्ष्मौ, तद्वन्धकेषु तयोरेवातिविशुद्धत्वात् तीव्ररसं वध्नीन: ||६|| तमतमगा उज्जोयं सम्मसुरा मणुयउरलदुगवइरं । अपमत्तो अमराउं चउगइमिच्छा उ सेसाणं ॥६८॥ तम. सप्तमपृथिवीनारका औपशमिकसम्यक्त्वाभिमुखा मिथ्यात्ववेदनचरमसमये तीव्ररसं बध्नन्त्युद्योतम्, अस्य शुभत्वेन तेषामेव तदानीं तद्वन्धयोग्यविशुद्धिसम्भव इति । मनुष्यद्विकादिप्रकृतिपञ्चकतीवरसबन्धः सम्यग्दृष्टिदेवानामेव, तिर्यग्नराणां तथाविधानां देवद्विकादिबन्धात्, नारकास्तु तद्वन्धयोग्या अपि वेदनाविह्वलत्वेनाऽहंदादिदर्शनायोग्यत्वेन सम्यग्दृशोऽपि न तथाविधशुद्धिभाज: । 'अपमत्तो अमराउं' सर्वेषामपि देवायुर्बन्धकानामस्यैवातिशुद्धत्वात् शेषाणां ६८ प्रकृतीनामशुभानां च चनुर्गतिका मिथ्यादृष्टयो:प्यतिसंक्लिष्टास्तीबरसे बध्नन्ति ।।६८|| जघन्यरसबन्धमाह - थीणतिगं अणमिच्छं मंदरसं संजमुम्मुहो मिच्छो । बियतियकसाय अविरय देस पमत्तो अरइसोए ॥६९॥ थीण. स्त्यानिित्रकानन्तानुबन्धिचतुष्टयमिथ्यात्वरूपाणामष्टानां चरमसमये मिथ्यादृष्टिः 'संजमुम्मुह' त्ति अनन्तरसमये सम्यक्त्वं संयमं च युगपत् प्रतिपित्सुर्जघन्यरसं बध्नाति, अस्यातिविशुद्धत्वात् । अप्रत्याख्यानावरणकषायाणां त्वविरतो देशविरतिं प्रपित्सुः । प्रत्याख्यानावरणचतुष्टयस्य तु देशविरत: प्रमत्तभावं जिगमिषुः । प्रमत्तस्त्वप्रमत्ताभिमुखोऽरतिशोकयोर्मन्दरसं बध्नानि ॥६९।।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy