________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः
----
तिब्बो० चउ० तत्र पर्वमनभागस्य स्वरूपमुच्यते । इह हि रागादिसचिवो जन्तुः पृथक सिद्धानामनन्तभागवर्तिभिरभव्येभ्योऽनन्तगुणैः परमाणुभिर्निष्पन्नान् कर्मस्कन्धान प्रतिसमयं गृह्णाति, तत्र च प्रतिपरमाणु कषापविशेषात् सर्बजीवानन्तगुणाननुभागस्याविभागपलिच्छेदान् करोनि, तत्र समानरसांशानां परमाणूनामेका बर्गणा', एकेन रसांशेनाधिकानां द्वितीया वर्गणेत्यादि वर्गणास्पर्धकक्रमः । अयं गाथार्थ:→ अशुभानां प्रकृतीनां संक्लेशतस्तीव्रो रसो बध्यते, शुभानां तु विशुद्धितः । मन्दरसो विपर्ययतो, यथाऽशुभानां मन्दरसो विशुद्धितः, शुभानां तु सक्लेशनः । पर्वतराजिसमकोपश्चतु:स्थानिक रसं बध्नाति, पृथिवीराजिसमकोपस्तु त्रिस्थानिकम्, रेणुजलराजिसमकोपस्तु द्रिस्थानिकं रसं बध्नाति ||६३||६४॥
निंबुच्छुरसो सहजो दुतिचउभागकढिइकभागतो। इगठाणाई असुहो असुहाण सुहो सुहाणं तु ॥६५॥
निम्बु० यथाहि निम्बाद्यशुभवनस्पतीनां सम्बन्धी सहजोऽक्वथितः कटुको रस एकस्थानिक उच्यते, स एव क्वथितोऽर्धावर्तितः कटुतरो द्विस्थानिकः, स एव भागद्वये आवर्तिते तृतीये भागे त्ववशेषे कटुकनमस्तिस्थानिकः, स एव भागत्रये आवर्तिते चतुर्थे त्वबशेषेऽतिशयकटुतमश्चतु:स्थानिकोऽभिधीयते । अत्र चैकस्थानिकादिरसो जललवबिन्दुचुलुकार्धाप्रसृत्यञ्जलिकरकुम्भद्रोणादिसम्बन्धान्मन्दमन्दतरादिबहुभेदत्वं प्रतिपद्यते । तथैवाशुभप्रकृतीनां रसस्यैकस्थानिकादित्वभवगन्तव्यम् । शुभप्रकृनिरसस्तु इक्ष्वादिदृष्टान्तादेवं भावनीयः । परमशुभप्रकृतीनां सम्बन्धी रसोऽशुभः, शुभप्रकृतीनां तु शुभः ॥६५॥
तीव्रानुभागबन्धस्वामिन आह— तिब्वमिगथावरायवसुरमिच्छा विगलसुहुमनरयतिगं । तिरिमणुयाउ तिरिनरा तिरिदुगछेवट्ठ सुरनिरया ॥६६॥
तिब्व० मिथ्याग्देवाः सर्वसंक्लिप्टा एकेन्द्रियजानि-स्थावरनाम्नी तीव्ररसे बध्नन्ति, तयोरशुभत्वात् । आतपं तु शुभत्वेन ते तत्प्रायोग्यविशुद्धा बध्नन्ति । विकलाद्येकादशप्रकृतीस्तिर्यग्नरा उत्कृष्टसंक्लेशेन बिकलादिनवप्रकृतीस्तीबरसा एकं द्वौ वा समयौ यावत् तिर्यग्नरा बध्नन्ति, तत्परतस्तथावि१- मेकानामेका व० -हे।