________________
शतकनामा पञ्चमः कर्मग्रन्थः
असुखगइजाइआगिइसंघयणाहारनरयजोयदुगं । थिरसुभजसथावरदसनपुइत्थीदुजुयलमसायं ॥ ६१ ॥
असु० इह 'असु' ति असुशब्दस्य सर्वत्र सम्बन्धादशुभा खगतिर्जातयोऽशुभा एकेन्द्रियाद्याश्चतुरिन्द्रियपर्यवसानाः, अशुभा आकृतयो न्यग्रोधपरिमण्डलादिरूपाः पञ्चाशुभसंहननादीनि ऋषभनाराचादीनि पञ्च, नरकद्विकमाहारकद्विकं च प्रतीतम्, उद्योतद्विकमुद्योतातपरूपं, स्थिरं, शुभं, यशश्च, स्थावरदशकं, नपुंसकत्रेदः, स्त्रीबेदो, द्वियुगलं हास्यस्त्यरतिशोकरूपमसानं चैता एकचत्वारिंशत्प्रकृतिर्जधन्यत उत्कर्षतश्च सातत्येन कियत्कालं बध्यन्त इत्याह ॥ १६१ ||
समयादंतमुहुत्तं मणुदुगजिणवइरउरलवंगेसु । तित्तीसयरा परमो अंतमुहु लहू वि आउजिणे ||६२||
९५
सम० जघन्यतः समयमेकं बध्यन्ते, तदुत्तरकालमासां परावर्त्तमानत्वेन नद्विपक्षस्य बन्धसम्भवात् । उत्कर्षतस्त्वन्तर्मुहूर्तम्, तदनु आसामध्रुवबन्धित्वेनावश्यं परावृत्तिसद्भावात् । तथा नरद्विकजिननामकर्मवज्रर्षभनाराचसंहननौदारिकाङ्गोपाङ्गलक्षणप्रकृतिपञ्चकविषयः प्रकृष्टो बन्धकालत्रयस्त्रिंशत्सागरोपमायुषामनुत्तरदेवानामुपपातसमयाद् भवान्तं यावज्जिननामसहितं नरप्रायोग्यं बध्नतामेतावान् बन्धकालो वेदितव्यः । नथाऽऽयुचतुष्के जिनकर्मणि च लघुरप्यन्तर्मुहूर्तम्, तत्रायुर्बन्धस्यान्तर्मौहूर्तिकत्वात् । जिनस्य तु यदोपशमश्रेणिमारूढोऽनिवृत्तिबादरादिगुणत्रये वर्तमानस्तदबन्धको भूत्वा प्रतिपतितो भूयस्तद्वन्धमन्तर्मुहूर्तं कृत्वा, ' एगभवे दुखुत्तो चरितमोहं उवसमेड़' [ ] इति वचनातू, पुनरुपामश्रेणीं प्रतिपन्नो यदा तस्याबन्धको भवति तदा जघन्यतोऽन्तर्मुहूर्त्तं बन्धकालो लभ्यते ॥ ६२॥
उक्तः स्थितिबन्धः, सम्प्रति अनुभागबन्धमाहतिब्बो असुहसुहाणं संकेसविसोहिओ विवज्जयओ । मंदरसो गिरिमहिरयजलरेहासरिसकसाएहिं ॥ ६३ ॥
ठाणाई अहा सुहन्ना विग्घदेसघाइ आवरणा । पुमसंजलणिगदुतिचउठाणरसा सेस दुगमाई ॥६४॥