________________
गुणरत्नसूरिविरचित-अवचूण्युपेतः रावर्तमानत्वादासामिति । एवमुत्तरत्रापि जघन्यतः सर्वत्र समयं सततं बन्धस्तदुत्तरकालं सप्रतिपक्षत्वेन द्विपक्षस्य बन्धस्य सम्भवात् ।।५८।।
समयादसंखकालं तिरिदुगनीएसु आउ अंतमुहू । उरलि असंखपरट्टा सायठिई पुवकोडूणा ॥५५॥
समया० जघन्यपदभाविसमयमेकमवधीकृत्योत्कर्षतोऽसंख्येयलोकाकाशप्रदेशप्रमाणसमराशिरूपमसंख्येयं कालं निर्यद्विकनीचैर्गोत्रयोः सततबन्धः, 'अस्थि अणंता जीवा' [६० सं० गाथा १७७] इत्यादिवचनादनन्तकायकायस्थितेरनन्तत्वेऽपि प्रस्तुतप्रकृतीनां सविपक्षत्वैतत्प्रतिपक्षयोर्नरद्विकोच्चैर्गोत्रयोरपि बन्धसम्भवादनन्तं कालं तत्सततबन्धो न घटते, असंख्येयं तु नेजोबाय्वपेक्षया, ने यतिसंक्लिष्टत्वेनोत्कृष्टस्वकायस्थितिमानं कालं यावत्तिर्यद्विकनीचैत्रि एव बध्नन्ति, न तु तद्विपक्षे रद्विकोच्चैर्गोत्रे । आयुश्चतुष्कस्य तु जघन्यतोऽप्युत्कर्षतोऽप्यन्तर्मुहत्तमेव सततबन्धस्ततस्तद्वन्धोपरमात् । था 'उरले' औदारिकशरीरेऽसंख्येयान पुद्गलपरावर्तान यावदुत्कर्षतोऽबन्धकालो, यनो व्यावहारिकसत्त्वा अप्यौदारिकशरीरिणो बायुवर्जमपि पृथिव्यादिस्थावर कायमुपगता; कालस्थित्येयन्तं कालं निष्ठन्ति, न च नत्र वैक्रियाहारकयोरौदारिकविपक्षयोर्बन्धोऽस्ति इति । सातस्य तु सततबन्धरूपोत्कृष्टा स्थितिः, "पुब्धकोडूण' त्ति केवलिनां नववर्षोना पूर्वकोटिस्ते हि पूर्वकोट्यायुषः सन्तो जन्मतो नववर्षातिक्रमे समुत्पन्नकेवला जन्मान्तं यावत्सातमेव केवलं बघ्नन्तीति ।।५९॥
जलहिसयं पणसीयं परघुस्सासे पणिंदि तसचउगे। बत्तीसं सुहविहगइपुमसुभगतिगुच्चचउरंसे ॥६०॥
जल पञ्चाशीत्यधिकं सागरशनं पराघातोच्छ्वासपञ्चेन्द्रियजातित्रसचतुष्कविषये सातत्येनोत्कृष्टबन्धकालः, इह च सामान्याभिधानेऽपि सचतुःपल्यं नरभवाधिकमिति विशेषो द्रष्टव्यो, यतो रावानेतद्विपक्षभूतानामेकेन्द्रियविकलेन्द्रियजातिस्थावरचतुष्काणां प्रागबन्धकाल उक्नस्तावानेवासां बन्ध काल इति, पञ्चसंग्रहादौ तु यदिह चतुःपल्याद्यधिकत्वं कुतोऽपि कारणान्नोक्तं नन्न विद्मः, एतद्भावना नु 'थावरचउइगविगलायवेसु [गाथा-५६] इत्यादिव्यारज्यायामिव कार्या । तथा सुखगतिपुंवेदसुभगत्रिकोच्चैर्गोत्रसमचतुरस्रविषयो ज्येष्ठ: सततबन्धः सचतुःपल्यादिविशेषणं द्वात्रिंशदधिकं सागरदातम्, अत्रापि "अपढमसंघयणागिइ' [गाथा-५७] इत्यादिगाथाव्याख्यानावसर इव भावना कार्या ||६०||