SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः 'छडीए नेरइओ भवपच्चयओ अ अपरबावीसं । देसविरओ उ भविगं पलियचउमं पदमकम्पे ॥१॥ पुबुत्तकालजोगो पंचासीअं सयं सचउपल्लं । आयवधावरचविगलतियगएगिदिअ अबंधो ॥२॥ ] ॥५६॥ अपढमसंघयणागिइखगईअणमिच्छदुभगधीणतिगं । निय नपु इत्थि दुतीसं पणिंदिसु अबंधठिइ परमा ॥५७॥ अपढम० अप्रथमसंहननाऽप्रथमसंस्थानपञ्चकाऽशुभखगत्यनन्तानुबन्धिचतुष्कमिथ्यात्वदुर्भगत्रिका स्त्यानर्द्धित्रिक]नीचैर्गोत्रनपुंसकवेदस्त्रीवेदरूपाणां २५प्रकृतीनां नरभवयुतं द्वात्रिंशदधिकं सागरशतमुत्कृष्टोऽबन्धकालः । तच्च पूर्वोक्तयुक्त्या वारद्वयं ६६सागरमानस्य सम्यक्त्वोत्कृष्ट कालस्य पूरणेन वेदितव्यम् । तदुक्तम् - 'पणवीसाइ अबंधो उक्कोसो होइ सम्मगुणजुनो । बत्नीस सयमयराण हुँति अहिआ मणुस्सभवा' [ ] ॥५७|| सम्प्रति पूर्वोक्तप्रकारेण ३२, ६३, ८५ अधिकसागरशतसंख्यापूरणोपायमाह - विजयाइसु गेविज्जे तमाइ दहिसय दुतीस तेसहूँ । पणसीइ सययबंधो पल्लतिगं सुरविउचिदुगे ॥५॥ विज द्विविजयादिगमनेन त्रिरच्युतगमनेन च द्वि: षट्षष्टिमानस्य सम्यक्त्वोत्कृष्टकालस्य पूरणेन द्वात्रिंशदधिकमतरशतमुक्तयुक्त्या पूर्यते, तथा 'गेविज्जे' इति उक्तयुक्तितयैव वारमेकं नवमग्रैवेयके वारद्वयं विजयादिषु वारत्रयमच्युते च तदीयोत्कृष्टायुरनुभवनेन त्रिषष्टयधिकाब्धिशतं भवनीति । 'तमाइ'त्ति तम:पृथिव्यां नवमवेयके विजयादावच्युते च यथोक्तक्रमेण गत्वा तदायुरुत्कृष्टमनुभवन: पञ्चाशीत्यधिकसागरशतं सम्भवतीति । सर्वत्र चान्तरालभाविनरभवाधिकत्वमुक्तन्यायेन स्वत एव वाच्यमिति । इत्युक्त एकचत्वारिंशत्प्रकृतीनामुत्कृष्टोऽबन्धकाल: । सम्प्रति ७३संख्यानामध्रुवबन्धिीनामुत्कृष्टं जधन्यं च सततबन्धकालमाह - तत्र 'सययबंधो पल्लतिगं सुरविउचिदगे' इनि सततं सातत्येन बन्धो भवति, किं प्रमाण: क्वेत्याह - 'पल्लतिगं' पल्यत्रिकं सुरद्विके देवगति-देवानुपूर्वीलक्षणे 'विउविदुगे' रैक्रियतदङ्गोपाङ्गलक्षणवैक्रियद्रिके च भवतीति शेषः । एतच्च त्रिपल्योपमायुषो मिथुनस्य प्रथमसमयान्प्रभृतिप्रत्ययात् सुरद्विकादिप्रकृतिचतुष्टयं बनतो वेदितव्यम्, अन्यस्यैतावत्काल बन्धासम्भवात्, जघन्यतस्तु समय,
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy