________________
गुणरत्नसूरिविरचित-अवचूण्र्युपेतः
बन्धकालस्तदाह
तिरिनरयत्तिजोयाणं नरभवजुय सचउपल्ल तेसवें । धावरचउइगविगलायवेसु पणसीइसयमयरा ॥५६।।
तिरि० तिर्यात्रक-नरकत्रिकायोतलक्षणानां सप्तप्रकृतीनामुत्कृष्टोऽबन्धकालो नरभवयुतं सचतुःपल्यं त्रिषष्ट्यधिकं सागरशतं भवतीति, कथमिति चेदुच्यते - इह कश्चित् त्रिपल्यायुमिथुनो भवप्रत्ययादेवैताः प्रकृतीरबद्धा तद्भबान्त्यमुहूर्ते सम्यक्त्वं प्राप्य सौधर्मे पल्पस्थितिर्देव उत्पद्यते, नत्रापि सम्यक्त्वप्रत्ययादेता न बध्नाति, ततोऽप्रतिपतितसम्यक्त्वो नरो भूत्वा चारित्रेण नवमग्रैवेयकं गतः, प्रथममुहूर्तोज़ मिथ्यात्वं गच्छति, अग्रे वारद्वयं षट्षष्टिसागरमानस्योत्कृष्टसम्यक्त्वकालस्यान्यथाऽनुपपद्यमानत्वेन तस्येह मिथ्यात्वगमनं विधीयते, तत्र च ३१सागरोपमाणि यावन्मिथ्यागप्यसौ भवप्रत्ययादमर्न बध्नाति । पुनस्तद्भवान्त्यमुहूर्ते सम्यक्त्वं प्राप्य नरो भूत्वा चारित्रेण वारद्वयं विजयादिगमनेन ६६ अतराणि प्रपूर्य नरेष्वागतः, कार्मग्रन्धिकमतेन सम्यक्त्वात् प्रच्युत्य मुहूर्तमेकं मिश्रभावं गत्वा पुनः प्राप्य(प्त)सम्यक्त्वो देश-सर्वविरतिभावान वारत्रयमच्युतगमनेन द्वितीयं ६६सागरमानं सम्यक्त्वकालं यदा पूरयनि तदा क्वचिद् भवप्रत्ययात् क्वचित् सम्यक्त्वमिश्रप्रत्ययादेतत्प्रकृतिसप्तकस्योत्कृष्टोऽबन्धकाल: संगच्छत इति । उक्तं च'पलिआई तिन्नि भोगावणिम्मि भवपच्चयं पलियमेगं सोहम्मे सम्मत्तेण नरभवे सबविरईए ॥१॥ मिच्छी भवपच्चयओ गेविन्जे सागराई इगतीसं अंतमुहतूणाई सम्मतं तम्मि लहिणं ॥२॥ विरयनरभवंतरिओ अणुत्तरसुरो उ अयरछावट्ठी मिस्सं मुहुत्तमेगं फासियमणुओ पुणो विरओ ॥३॥ छावट्ठी अयराणं अच्चुए विरयनरभवंतरिओ तिरिनरयतिगुज्जोआण एसकालो अबंधम्मि' ॥॥
एवं स्थावरचतुष्कैकेन्द्रियजातिबिकलेन्द्रियजात्यातपानां प्रकृतीनां पञ्चेन्द्रियेषत्कृष्टोऽब- न्धकालो नरभवयुतं सचतु:पल्यं १८५ अतराणाम् । नवरं कश्चित् षष्टपृथिवीनारको द्वाविंशत्यतराणि यावद्भवप्रत्ययादेतत्प्रकृतिन वकमबध्वा तद्भवान्त्यमुहूर्ते लब्धसम्यक्त्वो नरागतौ देशविरत्या चतु:पल्य- स्थितिषु देवेषु देवत्वमनुभूयाऽप्र तिपतितसम्यक्त्व एव नृषुत्पद्य सम्पूर्णसंयमानुभावात् प्रागुक्तक्रमेण नवमग्रैवेयकादिषूत्पद्य शेषं १६३अतरशतं यदा पूरयति तदैतत्प्रमाणमवगन्तव्यम् । यदुक्तम् - १- ०क्त्वो मनुष्येषूत्पद्य देशविरतिभासाद्य चतुः५० -पाः ।